________________ 200 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 853 / 4 / 55 इति सकि अविक्षत / " स्वरेतः" 4 / 3 / 75 इति अल्लुकि अविक्षाताम् / " स्वरस्य परे०" 7 / 4 / 110 इति अल्लुकः स्थानित्वात् " अनतोऽन्तो०" 4 / 2 / 114 इति अदभावे अविक्षन्त / नायम् लदित् , ऊदित् इत्येके, तन्मते " हशिटो." 3 / 4 / 55 इति सकि अविक्षत् / ऊदित्वात् क्त्वि वेटि विष्ट्वा वेषित्वा / अनुस्वारेवानेटू , वेष्टा, वेष्टुम् , विष्टः, विष्टवान् / " नाम्युपान्त्य." 5 / 1 / 54 इति के विषः, विषम् / णके परिवेषक: / " कर्मजा० " 3 / 1183 इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः, साधुपरिवेषकः / घ्यणि वेष्यः / घनि वेषः, परिवेषः / उणादौ " विषेः कित् " ( उ० 769) इति णौ विष्णुः // ___ अत्र अन्यैः अन्येऽप्येकादशाऽधीयन्ते / घृ क्षरणदीप्त्योः / हृ प्रसह्यकरणे / सृ गतौ / भस भर्सनदीप्त्योः / किकिती ज्ञाने / तुर त्वरणे / घिष शब्दे / धन धान्ये / जन जनने / गा स्तुतौ इति / ते त्वलौकिकत्वात् अस्माभिः उपेक्षिताः // इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञधातुपारायणेऽविकरणः किददादिगणः संपूर्णः॥ किददादिगण "