________________ 85 ] धातुपारायणे अदादयः (2) 199 भारः / भर इति तु भृणातेरलि / " कुक्ष्यात्मोदरा०" 5 / 1190 इति खौ कुकिंभरिः, आत्मभरिः उदरंभरिः / " भृवृजि० " 5 / 1 / 112 इति खे विश्वंभरा भूः / "भृगो नाम्नि " 5 / 3 / 98 इति स्त्रियां भावे क्यपि कुमारभृत्या / संज्ञाया अन्यत्र भृतिः / ट्विच्वादथुः / भरथुः / ड्वित्वात्रिमक्, भृत्रिमम् / उणादौ “द्वारशृङ्गार०" (उ० 411 ) इति आरे निपातनाद् भृङ्गारः / “दृमुषि०" ( उ० 651 ) इति किति तौ प्रभृतिः आदिः / भुंग भरणे [ 11886] भरते, भरति // अथ जान्तौ // '83 णिजॅकी शौचे च' / चकागत् पोषणे / " पाठे०". 2 / 3 / 97 इति नत्वे, " हवः शितिः" 4 / 1 / 12 इति द्वित्वे, “निजां शित्येत् " 4 / 1 / 57 इति पूर्वस्य एत्वे च नेनिक्ते, नेनिजाते, नेनिजते, नेनेक्ति, नेनिक्तः, नेनिजति / णोपदेशत्वात् " अदुरुपसर्गा०" 2 / 3 / 77 इति प्रणेनेक्ति / " द्वयुक्त० " 4 / 2 / 93 इति शिदनः पुसि अनेनिजुः / “द्वयुक्तोपान्त्यस्य" 4 / 3 / 14 इति गुणनिषेधे नेनिजानि, अनेनिजम् / ऋदित्वात् "ऋदिच्छ्वि० " 3 / 4 / 65 इति वाङि अनिजत् / पक्षे सिचि " व्यञ्जनानाम् " 4 / 3 / 45 इति वृद्धौ अनैक्षीत् / निनिजे, निनेज / अनुस्वारेच्चान्नेट , नेक्ता, नेक्तुम् / " नाम्युपान्त्य०" 51154 इति के निजः / शतरि अन्तो नो लुकि नेनिजत् , नेनिजतौ / घनि "क्तनिट०" 4 / 1 / 111 इति गत्वे नेगः // - '84 विज़ंकी पृथगभावे' / “निजां शित्ये" 4157 इति पूर्वस्य एत्वे वेविक्ते, वेविजाते, वेविजते, वेवेक्ति, वेविक्तः, वेविजति / दिवि अविवेक / " द्वयुक्त०" 4 / 2 / 93 इति शिदनः पुसि अवेविजुः / " द्वयुक्तोपान्त्य०" 4 / 3 / 14 इति गुणाभावे वेविजानि, अवेविजम् / ऋदिचात् वाऽङि अविजत् , अवैक्षीत् / विविजे, विवेज / अनुस्वारेच्चान्नेट् , वेक्ता, वेक्तुम् / " नाम्युपान्त्य०" 5 / 1154 इति के विजः / घनि “क्तेनिट० " 4 / 1 / 111 इति गत्वे वेगः / चान्तोऽयमिति सभ्याः / विवेचनम् , वेविचति, वेविचते, अविचत् , विवेकः // अथ षान्तः // ' 85 विष्ल की व्याप्तौ' / “निजां" 4 / 1 / 57 इति पूर्वस्य एत्वे वेविष्टे, वेविषाते, वेविषते, वेवेष्टि, वेविष्टः, वेविषति / " द्वयुक्त० " 4 / 2 / 93 इति शिदनः पुसि अवेविषुः / लदित्वादङि अविषत् , आत्मनेपदे तु अङभावे "हशिटो."