________________ 198 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 81 विधा, उपधा, संधा / " मृगये०" 5 / 3 / 101 इति निपातनात् अङि श्रद्धा / खलपवादे " शासयुधि०" 5 / 3 / 141 इति अने सुधान: / उणादौ "भीणशलि०" (उ० 21) इति के धाकः ओदनः स्तम्भश्च / “धालू०" (उ० 70) इति आणके धाणक: दीनारद्वादशभागः / “शीभी." (उ० 71) इति आनके धानकः हेमादिपरिमाणम् / " प्याधा० " ( उ० 258) इति ने धाना भृष्टयवः / अडरश्च / “तुदादिवृजि०" (उ० 273) इति किति अने निधनम् / “अर्तीरि०" ( उ० 338) इति मे धामं निलयस्तेजश्च / " धाग्राजि०" (उ० 379) इति अन्ये धान्यम् / संध्या इति तु " सजेध च" (उ० 359) इति ये / " इणधागभ्यां वा" ( उ० 389 ) इति वा किति रे धीरः धारा / " कृसिकम्य." (उ० 773) इति तुनि धातुः / धृषेस्तु “धृषेर्दिधिषदिधीषौ च " ( उ० 842) इति ऊः, दिधिषः ज्यायस्याः पूर्वमूढा लघ्वी, पुंश्चली च / दिधीषः ऊढायाः कनिष्ठायाः ज्येष्ठाऽनूढा / " मन् " (उ० 911) इति मनि धाम / “वयः पयः पुरोरेतोम्यो०" (उ० 974 ) इति असि वयोधाः युवा, पयोधाः पर्जन्यः, पुरोधाः पुरोहितः, रेतोधाः जनकः / विधाः वेधाः इति तु " विधेर्वा" (उ० 972) इति वा किति असि विधतेः // अथ ऋदन्तः // 82 टुडु र पोषणे च' / चकाराद् धारणे / " हवः शिति" 4 / 1 / 12 इति द्वित्वे " प्रभृमा०" 41158 इति पूर्वस्य इत्वे विभृते बिभर्ति / "द्वयक्त" 4 / 2 / 93 इति शिदनः पुसि " पुस्पौ" 4 / 3 / 3 इति गुणे च अविभः / " भीही०" 3 / 4 / 50 इति परोक्षाया वा आमि तिव्वद्भावात् द्वित्वेत्वयोः बिभराश्वकार बभार / अनुस्वारेचान्नेट् , भर्ता, भर्तुम् / “भृगोऽसंज्ञायाम् " 5 / 1145 इति क्यपि भृत्यः / संज्ञायां तु " ऋवर्ण 0 " 5 / 1 / 17 इति ध्यणि भार्यों नाम क्षत्रियविशेषः, भार्या वधूः / “समो वा" 5 / 1 / 46 संभृत्यः संभार्यः / " लिहादिभ्यः " 5 / 1 / 50 इति अणपवादे अचि जारभरा कन्या / ते भृतः / " कुत्सिता०" 73 / 33 इति कपि भृतकः / “भावाकोंः " 5 / 3 / 18 घनि 1. धानका इति मु०, उणादिविवरणे तु धानकः / / 2. दिधिषस्तु पुनर्भूxिरूढा / ( अ. चि. 3 / 189 ) // मनुस्त्वन्यथाऽऽह ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा / सा चाग्रेदिधिषूया पूर्वा तु दिधिषर्मता // (अ. चि. टी. 3 / 189) //