________________ 81 ] धातुपारायणे अदादयः (2) [ 197 " उपसर्गादातोः " 5 / 3 / 110 इति अङि उपदा / खलपवादे "शासूयुधि० " 5 / 3 / 141 इति अने सुदानः // '81 डुधांग्क् धारणे च' / चकाराद् दाने / धत्ते, अत्र " धागस्तथोश्च" 2 / 1178 इति पूर्वस्य चतुर्थः / चतुर्थान्तत्वाभावे तु पूर्वस्य न चतुर्थः दधाति / " नेङमादा०" 2 / 3 / 79 इति नेणत्वे प्रणिदधाति / " अधश्चतुर्थात् " 2 / 1 / 79 इत्यत्र धो वर्जनात् तथोः धत्वाभावे धतः धत्थः / " अन्तो नो लुक् " 4 / 2 / 94 दधति / शतरि दधत् , “शौ वा" 4 / 2 / 95 दधति दधन्ति कुलानि / "हौ दः" 4 / 1 / 31 इति स्वरस्य एन्वे द्वित्वाभावे च धेहि / “द्वयुक्त०" 4 / 2 / 93 इति शिदनः पुसि अदधुः / " अवौ० " 3 / 3 / 5 इति दासंज्ञत्वात् “पिबैति०" 4 / 3 / 66 इति सिचो लुपि अधात् / “सिज्विदो० " 4 / 2 / 92 इति अनः पुसि " इडेत्" 4 / 3 / 94 इति आल्लुकि अधुः। अद्यतन्यामात्मनेपदे " इश्व स्थादः" 4 / 3 / 41 इति इत्वे कित्त्वे च अधित / क्ये " ईयअने" 4 / 3 / 97 इति ईत्वे धीयते / दधे दधौ / आशिषि " गापा०" 4 / 3 / 96 इति एति धेयात् / ङितोऽन्यत्र धासीष्ट / सनि " मिमीमा०" 4 / 1 / 20 इति इति द्वित्वाभावे च धित्सति / अनुस्वारेवान्नेट् , धाता, धातव्यम् / “धाय्यापाय्य०" 51 / 24 इति ध्यणि निपातनाद् धाय्या सामिधेनी / ऋचोऽन्यत्र " य एच्चा०" 5 / 1 / 28 इति ये धेयम् / "तन्व्यधी०" 5 / 1 / 64 इति णे धाय: / दध इति तु दधतेः अचि / किति तादौ “धागः" 4 / 4 / 15 इति हि', विहित:, विहितवान् / " समस्तत० " 3 / 2 / 139 इति वा मो लुकि संहितम् , सहितम् / “वावाप्योस्तनि०" 3 / 2 / 156 इति वा प्यादेशे पिहितम् , अपिहितम् , पिधानम् , अपिधानम् / " आतो डो०" 5 / 1 / 76 इति डे गोधा / " शीशद्वा० " 5 / 2 / 37 इति आलो श्रद्धालुः / " सस्रिचक्रि० " 5 / 2 / 39. इति निपातनात् छौ धानशीलो दधिः / ड्विचात्त्रिमकि विधानेन निर्वृत्तं विहित्रमम् / " उपसर्गाद् दः किः " 5 / 387 प्रधिः, विधिः, संधिः, / " निर्दुस्सोः सेध०" 2 / 3 / 31 इति पत्वे निषेधिः, दुःपंधिः, सुपंधिः / " व्याप्यादाधारे" 5 / 3 / 88 वालधिः, ओषधिः / " अन्तद्धिः" 5 / 3 / 89 अन्तर्धानमन्तद्धिः / " स्थाऽऽदिभ्यः कः" 5 / 3 / 82 विधः / " उपसर्गादातः " 5 / 3 / 110 इति अङि