________________ 196 ] आचार्यश्रीहेमचन्द्रविरचिते [धा० 79 भावे च प्रमित्सते / अनुस्वारेत्वान्नेट् , माता, मातव्यम् / " य एचा." 5 / 1 / 28 इति ये मेयम् , प्रमेयम् / किति तादौ " दोसोमास्थ इ." 4 / 4 / 11 प्रमितः, प्रमितवान् / “वादिभ्यः" 5 / 3 / 92 इति क्तौ प्रमितिः / " उपसर्गात् 0 " 5 / 3 / 110 इति अङि प्रमा, करणेऽनटि प्रमाणम् // . अथोभयपदिनः षडनिटश्च // तत्राऽऽदन्तौ 80 डुदांग्क दाने'। गित्यात फलवकर्तरि " ईगितः" 3 / 395 इति आत्मनेपदे, " हवः०" 4 / 1 / 12 इति द्वित्वे, "श्नश्चा०" 4 / 2 / 96 इति आल्लुकि च दत्ते / " नेमादा" 2 / 3 / 79 इति नेणत्वे प्रणिदत्ते / फलवतोऽन्यत्र “शेषात्" 3 / 3 / 100 इति परस्मैपदे ददाति, प्रणिददाति, दत्तः / आङ्पूर्वात् “दांगोऽस्वाऽऽस्य०" 3353 इति आत्मनेपदे विद्याम् आदत्ते / “एषामी०" 4 / 2 / 97 इत्यत्र दो वर्जनात् अत्र इत्वाभावः / “अन्तो नो लुक्" 4 / 2 / 94 ददति ददतु / शतरि ददत् / " शौ वा" 4 / 2 / 95 ददति ददन्ति कुलानि / " हौ दः " 4 / 1 / 31 इति स्वरस्य एत्वे द्वित्वाभावे च देहि / “द्वयुक्त०" 4 / 2 / 93 इति शिदनः पुसि अददुः / " पिवैति०" 4 / 3 / 66 इति सिचो लुपि अदात् / अद्यतन्यामात्मनेपदे " इश्च स्थादः " 4 / 3 / 41 इति कित्त्वे दः इत्वे च अदित / " आतो णव ओः" 4 / 2 / 120 ददौ / आददे / आशिषि " गापास्था०" 4 / 396 इति एः, देयात् , विडतोऽन्यत्र दासीष्ट / सनि “मिमी०" 4 / 1 / 20 इति स्वरस्य इति द्वित्वाभावे च दिसते, अत्र फलवकर्तरि " प्राग्वत् " 3 / 3 / 74 इति आत्मनेपदम् / अन्यत्र “शेषात् " 3 / 3 / 100 इति परस्मैपदे दित्सति / अनुस्वारेवानेट् , दाता दातव्यम् / “य एच्चा० " 5 / 1 / 28 इति ये देयम् / " तन्व्यधी०" 5 / 1164 इति णे दायः / दद इति तु ददतेः अचि / " आतो डो०" 5 / 1176 इति अणपवादे डे गोदः / “दश्वाङः" 5 / 1178 दायादः / “प्राज्ज्ञश्च" 5 / 1179 धर्मप्रदः / “प्रादाग०" 4 / 4 / 7 इति वा ते दातुमारब्धं प्रसम् ,' पक्षे "दत्" 44.10 इति दति प्रदत्तम् / " निविस्वन्ववात् " 4 4 / 8 इति वा ते, " दस्ति" 3 / 2 / 88 इति दीर्घ च नीत्तम् वीत्तम् , सूत्तम् , अनूत्तम् , अवत्तम् , पक्षे " दत्" 4 / 4 / 10 इति दति, निदत्तम् इत्यादि / " स्वरादुपसर्गाद्" 4 / 4 / 9 इति ते आत्तः उत्तः / " दत्" 4 / 4 / 10 इति दति, डिवच्चारित्रमकि दानेन निवृत्तं दत्रिमम् / " दाधेसि०" 5 / 2 / 36 इति रौ दानशीलो. दारुः / " भावाकों: 5 / 3 / 18 घनि दायः / " उपसर्गाद् दः किः" 5 / 3 / 87 आदिः /