________________ 206] आचार्यश्रीहेमचन्द्रविरचिते [ अथ पान्ता // '15 क्षिपंच प्रेरणे' क्षिप्यति चिक्षेप / अनुस्वारेवान्नेट , क्षेप्ता, क्षिप्तः / " त्रसिगृधि० " 5 / 2 / 32 इति नौ क्षेपशीलः 'क्षिप्णुः / क्षिपीत् प्रेरणे [5 / 3] क्षिपते, क्षिपति // * 16 पुष्पच विकसने' / पुष्प्यति, पुपुष्प, पुष्पिता, पुष्पितः / अचि पुष्पम् // अथ मान्ताश्चत्वारः सेटश्च // __ 17 तिम 18 तीम 19 टिम 20 ष्टीमच आर्द्रभावे'। तिम्यति, तितेम, तेमिता, तिमितः / अनटि तेमनम् / उणादौ " शुषीषि०" (उ० 416) इति किति इरे तिमिरम् / " नाम्युपान्त्य०" ( उ० 609) इति किदिः तिमिः मत्स्यः // 18 तीम' / तीम्यति, तितीम, तीमिता // ... '19 टिम' / “पः सो०" 2 / 3 / 98 इति सत्वे स्तिम्यति / पोपदेशत्वात् " नाम्यन्तस्था० " 2 / 3 / 15 इति षत्वे तिष्टेम / स्तमिता, स्तिमितः // '20 ष्टीम' / “पः सो०" 2 / 3 / 98 इति सत्वे स्तीम्यति / पोपदेशत्वात् " नाम्यन्तस्था०" 2 / 3 / 15 इति षत्वे तिष्टीम / स्तीमिता, स्तीमितः // ____ अथ वान्ताश्चत्वारः सेटश्च // ' ___ 21 षिवूच उतौ' / उति:-वानम् , तन्तुसन्तान इत्यर्थः / "पः सो." 2 / 3 / 98 इति सत्वे सीव्यति / पोपदेशत्वात् " नाम्यन्तस्था० // 2 // 3 // 15 इति सत्वे सिषेव / परि-नि-विपूर्वस्य " असोङसिवूसह० " 2 // 3 // 48 इति षत्वे परिपीव्यति, निपीपति, विपीव्यति / अड्व्यवाये " स्तुस्वअश्व०" 2 / 3 / 49 इति या पत्वे पर्यपीव्यत् , पर्यसीव्यत् , न्यपीव्यत् , न्यसीव्यत् , व्यपीव्यत् , व्यसीव्यत् / सेविता, सेवितुम् / अदित्वात् क्त्वि वेट् , " अनुनासिके च०" 4 / 1 / 108 इति वस्य ऊटि स्यूत्वा / इटि " क्त्वा" 4 / 3 / 29 इति कित्त्वाभावाद् गुणे सेवित्वा / वेट्त्वात् क्तयोर्नेट् , स्यूतः, म्यूतवान् / “ष्ठिसिवोऽनटि वा” 4 / 2 / 112 'इति वा दीर्घे सेवनम् सीवनम् / लिहायचि स्वार्थे के च, प्रसेवकः / मनि स्योमा / उणादौ " सिवेर्डित् " ( उ० 121) इति ऊचटि सूचः, सूची / सूत्रम् इति तु " सूमूखनि०" (उ० 449 ) इति किति टि सूतेः // 1. पाणिनीयतन्त्रे अभिधानचिन्तामणौ [ 3314 ]च 'क्षिप्नु' शब्दः दृश्यते / / 2. अस्ति मत्स्यो तिमि म शतयोजन विस्तरः' इति भरत //