________________ 76 ] धातुपारायणे अदादय: (2) [ 193 अथेदन्तावनिटौ च // '74 जिभीक भये / बुद्धिसंसर्गपूर्वकेपायेऽवधित्वात अपादानत्वे "पञ्चम्यपादाने" 2 / 2 / 69 इति पञ्चम्यां चौराद् बिभेति / “भियो नवा" 4 / 2 / 99 इति वा इत्वे बिभितः, पक्षे विभीतः / बिभ्यति / " द्वयुक्त०" 4 / 2 / 93 इति शिदनः पास " पुस्पौ " 4 / 3 / 3 इति गुणे अविभयुः / " भीही." 3 / 450 इति परोक्षाया वा आमि विभयाञ्चकार विभाय / हेतुकतृतो भये वर्तमानस्य णौ " विभेतेर्भीष् च" 3 / 3 / 92 इति आत्वे भीषादेशे आत्मनेपदे च मुण्डो भापयते, मुण्डो भीषयते / करणाद् भये तु कुश्चिकयैनं भाययति / “भियो रुरुकलुकम्" 5 / 2 / 76 भयशीलो भीरुः, भीरुकः, भीलुकः; किवादत्र न गुणः / " वर्षादय: क्लीवे " 5 / 3 / 29 इति अलि भयम् / " भ्यादिभ्यो वा" 5 / 3 / 115 इति वा विपि भीः, पक्षे तो भीतिः / उणादौ " भीणूशली०" ( उ० 21) इति के भेकः मण्डकः कातरश्च / " शीभी. " ( उ० 71) इति आनके भयानकः / " भियः षोऽन्तश्च वा” ( उ० 344 ) इति किति मे भीमः भीष्मः / * " भीवृधि० " ( उ० 387 ) इति रे मेरः दुन्दुभिः कातरश्च / ऋफिडादित्वात् लत्वे भेल: चिकित्साग्रन्थकारः अप्राज्ञश्च // '75 ह्रींक लजायाम् ' / जिहेति, जिहीतः " योऽनेकस्वरस्य " 201156 इति यापवादे, “संयोगात् " 2 / 1 / 52 इति इयि जिट्टियति / " द्वयुक्त०" 4 / 2 / 93 इति शिदनः पुसि " पुस्पौ" 4 / 3 / 3 इति गुणे अजिहयुः / “भीहो" 3 / 4 / 50 इति परोक्षाया वा आमि जियाञ्चकार जिहाय / यङि जेडीयते / णौ " अतिरी० " 4 / 2 / 21 इति पौ " पुस्पौ" 4 / 3 / 3 इति गुणे हेपयति / अनुस्वारेवान्नेट् , हेता, हेतुम् / " ऋहीघ्रा०" 4 / 2 / 76 इति क्तयोस्तस्य वा नत्वे हीणः, हीतः, हीणवान् , हीतवान् / “य एचा०" 5 / 1 / 28 इति ये हेयम् / " क्रुत्संपदा०" 5 / 3 / 114 इति क्विपि हीः / उणादौ " हीयो रश्च लो वा " ( उ० 25) इति किति के हीकः लीकश्च सलजः / " हियः किद्रो लश्च वा" ( उ० 750 ) इति को हीः ह्रीकुश्च त्रपु जतुनी, लजावाँश्च // अथ ऋदन्तावनिटौ च // '76 पृक् पालनपूरणयोः' / " पृभृमा० " 4 / 1 / 58 इति पूर्वस्य इत्वे पिपति, पिपृतः, पिप्रति, पपार, पप्रतुः / थवि " ऋतः" 4 / 479 इति नेटू ,