________________ 192 ] आचार्यश्रीहेमचन्द्रविरचिते [धा० 72 इति परोक्षाया वा आमि जुहवाञ्चकार / अत्र आमस्तिव्वद्भावात् " हवः शिति" 4 / 1 / 12 इति द्वित्वम् , पक्षे जुहाव / “हुधुटो हेधिः" 4 / 2 / 83 जुहुाध / अनुस्वारेत्त्वान्नेट् , होता, होतुम् / “य एच्चा० " 5 / 1 / 28 इात ये हव्यम् / " उवर्णादावश्यके" 5 / 1119 घ्यणि हाव्यम् अवश्यम् / अचि हवः / " आशिष्यकन् " 5 / 1 / 70 हवकः / “दिद्युद्ददृद्" 5 / 2 / 83 इति विपि निपातनाद् हवनशीलः जुहः / “युवर्ण" 5 / 3 / 28 इति आल हवः / उणादौ " अर्तीरि०" (उ० 338 ) इति मे होम आहुतिः / " हुयामा० " (उ० 451) इति त्रे होत्रम् हवनम् , होत्रा ऋचः / " रुच्यचि० " (उ० 989) इति इसि हविः पुरोडाशादिः / “हुपूद्गो० " (उ० 863 ) इति तः, होता ऋत्विक् // अथादन्तोऽनिट् च // '73 ओहांक त्यागे'। ककारः अदादित्वज्ञापनार्थः, "न हाको लुपि" 4 / 1 / 49 इत्यादौ विशेषणार्थश्च / जहाति / " हाकः" 4 / 2 / 100 इति वा इत्वे जहितः / पक्षे " एषामी." 4 / 2 / 97 इति ईत्वे जहीतः / " आ च हो" 4 / 2 / 101 जहाहि, जहिहि पक्षे जहीहि / यि लुकि जह्यात् जह्याताम् / क्थे. " ईय॑भने" 4 / 3 / 97 इति ईत्वे हीयते / “आतो णव औः" 4 / 2 / 120 जहौ / " गापास्था०" 4 / 3 / 96 इति आशिषि एः, हेयात् / यडि जेहीयते / यङ्लुपि " न हाको०" 431149 इति पूर्वस्य आत्वाभावे जहाति, पक्षे “यतुरुस्तोः०" 4 / 364 इति ईति जहेति / " ललाटवात०" 5 / 1 / 125. इति खशि शर्धजहा माषाः / अनुस्वारेचान्नेट , हाता, हातुम् / ओदित्वात् " सूयत्यायो०" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे हीनः, हीनवान् / " हः काल." 5 / 1168 इति टनणि जहाति भावान् इति हायनः संवत्सरः / जहति उदकमिति हायना व्रीहयः / " आतो डो०" 5 / 1176 इति डे कलां जहाति कलहः / " ड्यापो बहुलं नाम्नि" 2 / 4 / 99 इति पूर्वस्य ह्रस्वः / “हाको हिः क्त्वि " 4 / 4 / 14 हित्वा / “ग्लाहा." 5 / 3 / 118 इति अनौ हानिः / " अहीयरहो." 72 / 88 इत्यत्र हाको वर्जनात् पञ्चम्याः तस्वभावे सार्थात् हीनः / “पापहीयमानेन०" 7286 इति तृतीयायाः तसौ विद्यातो हीयते / उणादौ " भीणशली." ( उ० 21) इति के निहाकः निःस्नेहः, निहाका गोधा / "पाहाभ्यां पयह्यौ च" (उ० 953) इति असि ह्यः अनन्तरातीतदिनम् / अहर् इति तु " श्वन्मातरिश्वन्(उ० 902) इति अनि निपातनात् अंहतेः //