________________ 72 ] धातु पारायणे अदादयः (2) अदुग्ध गौः स्वयमेव, अदोहि गौः स्वयमेव / " हशिटो०" 34 / 55 इति सकि अधुक्षत् / वतवर्गादावात्मनेपदे " दुहदिह०" 4 / 3 / 74 इति सको वा लुकि अदुह्वहि, अधुक्षावहि, अदुग्ध, अधुक्षत, अदुग्धाः, अधुक्षथाः / अनुस्वारेचान्नेट् , दोग्धा दोग्धुम् / " कृवृषि०" 5 / 1 / 42 इति वा क्यपि दुह्या गौः, पक्षे " ऋवर्ण" 5 / 1 / 17 इति ध्यणि दोह्या / विपि गोधुक् / " दुहेर्डधः " 5 / 1 / 145 कामदुघो धर्मः / " युजभुज०" 5 / 2 / 50 इति घिनणि दोही / बाहुलकात् खलपवादेने सुदोहनः / घनि दोहः / उणादौ “कुमुद०" (उ० 244 ) इति अदे निपातनात् दोहदः अभिलाषविशेषः / " त्वष्ट" ( उ० 865) इति तृप्रत्यये निपातनाद् दुहिता // ___ '70 दिहीक लेपे' / दिग्धे देग्धि / " नेमादा०" 22379 इति नर्णत्वे प्रणिदेग्धि / " हशिटो० " 3 / 4 / 55 इति सकि अधिक्षत् / वतवर्गादौ आत्मनेपदे वा सको लुकि अघिक्षावहि, आदिबहि, अधिक्षत, अदिग्ध / संदिदेहे, संदिदेह / यङि देदिह्यते / यङ्लुपि देदिहीति, देदेग्धि / अनुस्वारेवान्नेट् , देग्धा, दिग्धः, संदिग्धः / उणादौ " मृदिकन्दि०" ( उ० 465 ) इति अले देहली द्वाराऽधोदारु / / '71 लिहीक आस्वादने' / लीढे, लेढि / " हशिटो." 3 / 4 / 55 इति सकि अलिक्षत् / वतवर्गादावात्मनेपदे वा सको लुकि अलिह्वहि, अलिक्षावहि, अलीढ, अलिक्षत / लिलिहे, लिलेह / यङि लेलिह्यते / यङ्लुपि लेलिहीति, लेलेढि / अनुस्वारेवान्नेट् , लेढा, लेढुम् / “ऋवर्ण०" 5 / 1 / 17 इति ध्यणि लेह्यम् / लिहायचि लेहः, आलेहः / बाहुलकात् " नाम्युपान्त्य०" 5 / 1 / 54 इति के लिहः / उणादौ " लिहेर्जिह च" ( उ० 513 ) इति वे जिह्वा // अथ अदाद्यन्तर्गणो ह्वादयः // '72 हुक दानादनयोः' / दानमत्र हविष्प्रक्षेपः / अदनं भक्षणम् / " हवः शिति" 4 / 1 / 12 इति द्वित्वे, " उत औः०” 4359 इत्यत्र अद्वः इत्युक्तेः औत्वाभावे जुहोति / जुहुतः / " ह्विणोर०" 4 / 3 / 15 इति वत्वे " अन्तो नो लुक०" 4 / 2 / 94 इति न लुकि च जुह्वति / " द्वयुक्त०" 4 / 2 / 93 इति शिदनः पुसि, " पुस्पौ" 4 / 3 / 3 इति गुणे अजुवुः / " भी ही०" 3 / 4 / 50 . 1. 'हे र्दुघः इति मु० //