________________ 190 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 67- / अथोदन्तोऽनिट् च // '67 ब्रूग्क वक्तायां वाचि' / ब्रूते / किरादित्वात् जिक्ययोरभावे कर्मकर्तरि अवोचत कथा स्वयमेव, ब्रूते कथा स्वयमेव / “ब्रूतः परादिः" 4 / 3 / 63 इति ईति ब्रवीति / "ब्रूगः पञ्चानाम्" 4 / 2 / 118 इति बेग आहाऽऽदेशे तिवा णवादौ च आह, आहतुः, आहुः, आत्थ, आहथुः / अशिति “अस्ति ब्रूवो:०" 4 / 4 / 1 इति वचादेशे, " यजादिवश्० " 4 / 1 / 72 इति पूर्वस्य वृति उवाच / " यजादिवचे" 4 / 1 / 79 इति वृति ऊचे / क्थे उच्यते / " शास्त्यसूवक्ति" 3 / 4 / 60 इति अङि अवोचत / अनुस्वारेत्वान्नेट् , वक्ता, वक्तुम् / "प्रवचनीयादयः" 5 / 1 / 8 इति वा कर्तरि अनीये प्रवचनीयो गुरुर्धर्मस्य, पक्षे कर्मणि प्रवचनीयो धर्मों गुरुणा / ध्यणि " वचोऽशब्दनाम्नि" 4 / 1 / 119 इति कत्वप्रतिषेधे वाच्यम् / शब्दसंज्ञायां तु वाक्यम् / " त्यजयज०" 4 / 1118 इति कत्वाभावे प्रवाच्यो ग्रन्थविशेषः / अचि "ब्रुवः " 5 / 1151 इति निपातनात् ब्राह्मणमात्मानं ब्रूते ब्राह्मणब्रुवः / " वेयिवद०" 5 / 2 / 3 इति निपातनाद् भूतमात्रे कानः, अनूचानः / " तत्र वसु०" 5 / 2 / 2 इति सौ उचिवान् / “दिद्युद्" 5 / 2 / 83 इति क्विपि निपातनात् वचनशीला वाक् / उणादौ " नीनूरमि०" ( उ० 227 ) इति किति थे उक्थम्-साम // ___ अथ पान्तोऽनिट् च // __ '68 द्विषींक अप्रीतौ' / द्विष्टे, द्वेष्टि / “वा द्विषा० " 4 / 2 / 91 इति शिदनः वा पुसि अद्विषुः, अद्विषन् / " हशिटो० " 3 / 4 / 55 इति.सकि अद्विक्षत् / अनुस्वारेवान्नेट , द्वेष्टा द्वेष्टुम् / " ऋवर्ण" 5 / 1 / 17 इति ध्यणि द्वेष्यः / " नाम्युपान्त्य०" 5 / 1 / 54 इति के द्विषः / विपि सुद्विट् , मित्रद्विट् , बह्मद्विट् / " सुगद्विषा०" 5 / 2 / 26 इति अतृशि " द्विषो वाऽतृशः " 212184 इति कर्मणि षष्ठयां चौरस्य द्विषन् , चौरं द्विषन् / " युजभुज०" 5 / 2 / 50 इति घिनणि द्वेषणशीलो द्वेषी / घभि द्वेषः // . अथ हान्तास्त्रयोऽनिटश्च // . '69 दुहीक क्षरणे' / दुग्धे गौः, दोन्धि / कर्मकर्तरि " एक धातौ० " 3 / 4 / 86 इति जिक्यात्मनेपदेषु प्राप्तेषु "भूषार्थ० " 3 / 4 / 93 इति किरादित्वात् क्यनिषेधे दुग्धे गौः स्वयमेव / " स्वरदुहो वा" 3 / 4 / 90 इति वा जिनिषेधे