________________ 66 ] धातुपारायणे अदादयः (2) [ 189 प्रोणुते / प्रोणुनुवे / " अट्यति० " 3 / 4 / 10 इति यडि प्रोर्णोनूयते / प्रोर्णविता प्रोणुविता, प्रोर्णवितुम् प्रोणुवितुम् / सनि " इवृध०" 4 / 4 / 47 इति वेटि प्रोणुनविषति प्रोणुनविषति, पक्षे प्रोणुनूषति / किति "ऋवर्ण,यू० " 4 / 4 / 57 इति नेट् , प्रोर्णतः प्रोणुतवान् / उर्णा' इति तु " इणुविशा० " ( उ० 182 ) इति णे ऊवतेः / ऊरुः [" अरुर्च" उ० 736] उरुः ["महत्युर्च" उ०७३७] इत्यपि अतैः औ // 66 टुंग्क् स्तुतौ' / “पः सो० " 2 / 3 / 98 इति सत्वे स्तुते / " उत औः०" 4 / 3 / 59 इति औत्वे स्तौति / " यङ्तुरुस्तोः०" 4 / 3 / 64 इति ईति स्तवीति / " उपसर्गात्सुग्० " 2 / 3 / 39 इति पत्वे अभिष्टौति, विष्टौति / " नाम्यन्तस्था०" 2 / 3 / 15 इति षत्वे तुष्टाव / यङि तोष्ट्रयते / यङ्लुपि तोष्टोति तोष्टवीति / सनि तुष्ट्रपति / अनुस्वारेवान्नेट् , स्तोता प्रस्तोता / सिचि परस्मैपदे " धृगसुस्तोः " 4 / 4 / 85 इति इटि अस्तावीत् अस्तावीष्टाम् / " स्क्रसृवृ०" 4 / 4 / 81 इत्यत्र स्तो: वर्जनात् परोक्षायाम् इडभावे तुष्टोथ / " उत औः०" 4359 इत्यत्र अद्वेः इति वचनात् द्वित्वे औत्वाभावः, तुष्टुव, तुष्टुम / परिनिविपूर्वस्य " स्तुस्वाश्चा० " 2 / 3 / 49 इति अव्यवाये वा षत्वे पर्यष्टोत् पर्यस्तोत् / " दग०" 5 / 1 / 40 इति क्यपि स्तुत्यः / “दिद्युद्ददृद्" 5 / 2 / 83 इति विपि निपातनात् आयतस्तवनशील: आयतस्तूः / एवं ग्रावस्तुत् / " नीदाव०" 5 / 2 / 88 इति त्रुटि स्तोत्रम् / विपि "उपसर्गात्" 2 / 3 / 39 इति षत्वे परिष्टुत् / " समासेऽग्नेः स्तुतः" 2 / 3 / 16 अग्निष्टुत् / “प्रात् स्नुद्रुस्तोः" 53 / 67 इति पनि प्रस्तावः / “संस्तोः" 5 / 3 / 66 समेत्य स्तुवन्ति अत्र संस्तावः / यज्ञविषयादन्यत्र " युवर्ण०" 5 / 3 / 28 इति अलि संस्तवः / एवं स्तवः / "वादिभ्यः" 5 / 3 / 92 इति अनडपवादे करणे क्तौ स्तुतिः / उणादौ "भीणशलि०" ( उ० 21) इति के स्तोकम् / “दृकन" ( उ० 27) इति अके स्तबकः गुच्छः / " युसुकु० " ( उ० 297 ) इति पे ऊत्वे च स्तूपः बोधिसत्वभवनम् / " अर्तीरि० " (उ० 338 ) इति मे स्तोमः समूहः, यज्ञः, स्तोत्रं च / 'टुभूङ् स्तम्भे [ 1781 ] इत्यस्य तु स्तोभः अनर्थकं श्रुतिपूरणं वचः // .. 1. उर्धे हिंसायाम् [ 1470 ] उर्णा मेषादिलोम, ध्रुवोरन्तरावर्तश्च ( उ. वि. ) / 2. ष्टुभुङ् इति मु० //