________________ 188 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 64- . अथ क्षान्तः सेट् च // '64 चक्षिक व्यक्तायां वाचि'। “संयोगस्यादौ० " 2 / 1 / 88 इति कस्य लुकि आचष्टे / " नवा परोक्षायाम्" 445 इति वा कशांख्यांगोः गिचात् फलवकर्तर्यात्मनेपदे आचक्शे, आचख्ये / फलवतोऽन्यत्र " शेषात् " 3333100 इति परस्मैपदे आचक्शौ आचख्यो पक्षे आचचक्षे / अशिति " चक्षोवाचि० " 444 इति क्शांगल्यांगो। अनुस्वारेवान्नेट् , आक्शास्यते / " शिट्याद्यस्य०" 1 / 3 / 59 इति वा द्वितीये आख्शास्यते आख्यास्यते, आक्शास्यति आवशास्यति आख्यास्यति / " शास्त्यमुवक्ति० " 3 / 4 / 60 इति अङि आख्यत् / " य एच्चा०" 5 / 1 / 28 इति ये आख्येयम् / " उपसर्गादातो." 5 / 3 / 110 इति डे आख्यः, प्रख्यः / " तन्व्यधी०" 5 / 1164 इति णे ख्यायः / / " समः ख्यः" 5 / 1177 इति डे गोसङ्ख्यः / " व्यञ्जनान्तस्था." 4 / 2 / 71 इत्यत्र ख्यावर्जनात् क्तयोस्तस्य नत्वाभावे ख्यातः ख्यातवान् / “पुमोशिट्य०" 1 / 3 / 9 इत्यत्र ख्यागो वर्जनात् मोऽनुस्वरानुनासिकपूर्वरेफाभावे पुख्यानं, मुख्याति: / वागर्थस्यैव क्शांगख्यांगो, तेन वर्जनार्थाद् ध्यणि संचक्ष्याः, दुर्जनाः वर्जनीया इत्यर्थः / भक्षणार्थीदनटि चक्षणम् / चक्षिता / " स्वरात् " 2 / 3 / 85 इति कृतो नस्य [ णत्व संभवे ] " शुभ्नादिनाम् " 2 / 3 / 96 इति णत्वप्रतिषेधे प्रख्यानम् प्रख्यापनीयम् / उणादौ " तृकश०" ( उ० 187) इति अणे विचक्षणः / ज्ञानार्थत्वादत्र क्शांगख्यांगभावः / " चक्षः शिद्वा" ( उ० 969 ) इति असि 'चक्षाः नृचक्षाः ख्याश्च राक्षसः, अवचक्षाः / " चक्षेः शिद् वा" ( उ० 1001) इति किति उसि चक्षुः, परिचक्षुः, अवचक्षु, अवसंचक्षुः, अवख्युः / बाहुलकात् द्वित्वे संचचक्षुः, विचख्युः / / ____अथोभयपदिनस्तत्राप्युदन्तौ // . '65 ऊर्युगक आच्छादने' / “वोर्णोः” 4 / 3 / 60 इति वा. औत्वे प्रोर्णोति प्रोोति / " न दिस्योः " 4 / 3 / 61 इति औत्वप्रतिषेधे प्रौर्णोत् , प्रौर्णोः। परस्मैपदे सिचि " वोणुगः०" 43 46 इति वा वृद्धौ प्रौर्णावीत् , पक्षे प्रोणवीत् / " वोर्णोः" 4 3 / 19 इति इटो वा ङित्वे प्रोणुवीत् / " गुरुनाम्यादेः० " 3 / 4 / 48 इत्यत्र ऊर्णोः वर्जनात् परोक्षाया आमभावे प्रोणुनाव / गित्त्वात् फलवत्कर्तर्यात्मनेपदे 1. चक्षः, ख्या:, उभे अपि रक्षो नाम्नी / ......नृचक्षाः राक्षस: / इति उणादिविवरणे / चक्षः इति प० र० प्रतयोः //