________________ 194 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० ७६पपर्थ / वे " स्क्रसृवृ०" 4 / 4 / 81 इति इटि परिव / ऋदन्तोऽयं सेट् च, इत्येके / तन्मते 'तसि " ओष्ठयाद्" 4 / 4 / 117 इति उरि, " भ्वादेः" 2 / 1 / 63 इति दी च पिपूर्तः / अन्तौ पिपुरति / परोक्षायां " ऋ: शूढ०" 4 / 4 / 20 इति वा ऋः, निपप्रतुः, निपग्रः, पक्षे “स्कृच्छ्रतो०" 4 / 3 / 8 इति गुणे निपपरतुः निपपरुः / थवि " स्क्रसृवृ०" 4 / 4 / 81 इति इटि निपपरिथ / वे निपप्रिव, निपपरिव / अनुस्वारेच्चान्नेट् , पर्ता पर्तुम् / “हनृतः" 4 / 4 / 49 इति इटि परिष्यति / क्तयोः व्यापृतः, व्याप्तवान् / येषां तु दीर्घान्तः तन्मते " ऋवर्ण" 4457 इति इडभावे, " वादे." 4 / 2 / 68 इत्यत्र प्रो वर्जनात् क्तयोस्तस्य नत्वाभावे पूर्तः, पूर्तवान् / णो “साहिसाति०" 5 / 1159 इति शे पारयः / घजि पारः / " णो दान्तशान्त " 4 / 4 / 74 इति क्त वा पूर्ण इति निपातनमस्यापि इत्येके, तन्मते णौ ते पूर्णः, पारितः / पूरित: इति तु पूरैचेः ण्यन्तात् क्ते // .... '77 ऋक् गतौ' / " हवः शिति" 4 / 1 / 12 इति द्वित्वे " प्रभृमा०" 4 / 1 / 58 इति पूर्वस्य इत्वे " पूर्वस्यास्वे० " 4 / 1 / 37 इति इयि " नामिनो० " 4 / 3 / 1 इति गुणे इयति / इयत: इथति, "श्रौति०" 4 / 2 / 108 इत्यत्र "अत्यादौ" 4 / 2 / 104 इत्यधिकारात अत्र ऋच्छाऽऽदेशाभावः / संपूर्वात् “समो गमृच्छि०" 3 / 3 / 84 इति आत्मनेपदे समियते / आप्ये तु सति " शेषात् परस्मै" 33100 इति परस्मैपदे समिति मित्रम् / " अस्यादेः०" 4 / 1 / 68 इति पूर्वस्य आत्वे ऋदादित्वाभावात् “अनातो." 4 / 1 / 69 इति नन्ताभावे, आर, आरतुः, आरुः / " इन्ध्यसंयोगा०" 4 / 3 / 21 इति अवित्परोक्षायाः कित्वेऽप्यत्र “संयोगात्" 2 / 1 / 52 इति गुणः / " क्ययङ० " 4 / 3 / 110 इति गुणे अर्यते / “अव्यति" 3 / 4 / 10 इति यङि अगर्यते / आशीर्ये अर्यात् / सप्तम्याम् इययात् / अद्यतन्यां " सर्त्यर्तेः०" 3461 इति वाडि आरत् , आर्षीत् / थवि "ऋव्येद० " 4 / 4 / 80 इति इटि आरिथ / सनि "ऋस्मिपूङ०” 4 / 4 / 48 इति इटि स्वरस्य कार्यित्वाद् द्वित्वं प्रति निमित्तत्वाभाव इति पूर्व स्वरादेशे गुणे पश्चात् " स्वरादेः०" 4 / 1 / 4 इति द्वितीयांशस्य द्वित्वे अरिरिषति / अनुस्वारेत्वान्नेट् , अर्ता, अतुम् / " ऋही." 4276 इति क्तयोस्तस्य वा नत्वे ऋणम् ऋतम् / णौ "अतिरी." 4 / 2 / 21 इति पौ अर्पयति / उणादौ " ऋकृवृ० " (उ० 196) इति उणे 1. तस्योष्ठया' इति मु० // 2. ऋच्छाभावः इति मु० // THAN