________________ - 49 ] धातुपारायणे अदादयः (2) .. ( उ० 232 ) इति अथे शयथः अजगरः / “जीणशीदी" ( उ० 261) इति किति ने शीनः पीलुः / " शीङः सन्वत् " ( उ० 267) इति डिति ने शिश्नम् मेदम् / “भापा०" ( उ० 296 ) इति पे शेपः पुच्छम् / “रीशीभ्यां फः" ( उ० 314) शेफः मेढ़म् / “शुकशीमूभ्यः कित् " ( उ० 463 ) इति ले शीलम् / " शीङस्तलकूपालवालणवलण्वलाः" ( उ० 501) शीतलम् अनुष्णम् , शेपालम् , जपादित्वाद् वत्वे शेवालम् , शैवालम् , शैवलम् , शेवलं च जलमलः / " शीडापो हस्वश्च वा" ( उ० 506) इति वे शिवम् भद्रम् , शिवा पथ्या, शेवम् धनं सुखं च; शेवः अजगरः, शेवा 'प्रचला निद्राविशेषः / “भृमृत." ( उ० 716) इति उः, शयुः अजगरः / " शीडो धुक्" ( उ० 784) शीधुः / " शीङः फस् च " ( उ० 982) इति फसि पसि च शेफः शेपश्च मेदम् / शेखरशिखरौ तु " शाखेरिदेतो चातः" (उ० 400) इत्यरे शाखेः // - दीपीक दीप्तिदेवनयोः / वेवीङ् वीसमानार्थः एतावपि केचित् पठन्ति, छान्दसत्वात्तु उपेक्षितौ // 48 हुनुंङ्क अपनयने' / अपनयनम् अपलापः / " मनयवल." 1 / 3 / 15 इति मः अनुनासिकाऽनुस्वारयोः किन्नुते, किं नुते / "श्लाघहनुस्था." 2 / 2 / 60 इति चतुर्थ्यां चैत्राय निनुते / 'जुनुवे / यङि जोनूयते / अनुस्वारेचान्नेट, होता, ह्रोतव्यम् / “य ऐचा०" 5 / 1 / 28 इति ये हव्यम् / " उवर्णात्" इति ध्यणि हाव्यम् अवश्यम् / “युवर्ण०" 5 / 3 / 28 इत्यलि अपहवः // ___ अतः परमूदन्तः सेट् च // . ___ 49 पूडौक् प्राणिगर्भविमोचने' / " षः सो०" 2 / 3 / 98 इति सत्वे सूते, सुवाते, सुवते / “सूतेः पञ्चम्याम् " 4 / 3 / 13 इति गुणाभावे " धातोरिवों." 211150 इत्युवि सुवै, सुवावहै, सुवामहै / षोपदेशत्वात् "नाम्यन्तस्था०" 2 / 3 / 15 इति षत्वे सुषुवे / क्थे सूयते / णो सनि सुषावयिषति / औदित्वात् वेटि सोता, सविता / किति " उवर्णात् " 4 / 4 / 58 इति नेट् , सूतः, सूतवान् / युवती " भोजमतयोः०" 2 / 4 / 81 इत्यन्तस्य ष्ये सूत्या / युवतेरन्यत्र “कुत्सिता." 73 / 33 इति कपि " द्वयेष०" 2 / 4 / 109 इत्यतो वेत्वे सूतिका, सूतका / तो 1. प्रबला इति मु० // . 2, जुह्नते इति मु० //