________________ 182] आचार्यश्रीहेमचन्द्रविरचिते [ पा० 4671 / 168 इति इनि अधीती शास्त्रे, अत्र " व्याप्ये तेनः" 2299 इति द्वितीयापवादः सप्तमी / मनि अध्येमा / विचि अध्यैः / विपि अधीत् / "धारीडेोऽकृच्छेतृश्" 5 / 2 / 24 अधीयन् सिद्धान्तम् / अत्र " 'तन्नुदन्ता." 2 / 2 / 90 इति प्रतिषेधात् “कर्मणि कृतः" 222683 इति षष्ठो नास्ति / “युवर्ण०" 5 / 3 / 28 इत्यलपवादे " इडाऽपादाने तु टिद् वा" 5 / 3 / 19 इति घजि उपाध्यायः, स्त्री चेत् उपाध्याया / टिव पक्षे " अणयेने०" 2 / 4 / 20 इति ड्याम् उपाध्यायी / " नाम्नि" 5 / 3 / 130 घाऽपवादे "न्यायावाया." 5 / 3 / 134 इति घजि अधीयते अस्मिन् इति अध्यायः // __47 शीङ्क स्वप्ने' / "शीङ ए: शिति" 4 / 3 / 104 शेते शयाते / " शीडो रत् " 4 / 2 / 115 इत्यन्तो रति शेरते / " अधेः शीङ्" 2 / 2 / 20. इत्याधारस्य कर्मत्वे ग्राममधिशेते / “विङति यि शय" 4 / 3 / 105 शय्यते अधिशय्य गतः / यडि शाशय्यते / यङ्लुपि शेशेति, शेशयीति / शिश्ये, शयिता, शयितुम् / “य एच्चा०" 5 / 1 / 28 इति ये शेयम् / अचि शयः / “पार्थादिभ्यः शीङः" 511135 इति अ, पार्श्वशयः / " उर्धादिभ्य: कर्तुः" 5 / 1 / 136 उर्ध्वशयः, उत्तानशयः / " आधारात् " 5 / 1 / 137 खशयः, गिरिशयः। गिरिश इति तु लोमादित्वान्मत्वर्थीये शे / “व्रता०" 5 / 1 / 157 इति णिनि स्थण्डिलशायी / " श्लिषशी" 5119 इति साप्यादपि वा कर्तरि ते "न डीडशीड" 4 / 3 / 27 इति कित्त्वप्रतिषेधाद् गुणे उपशयितो गुरु शिष्यः, पक्षे कर्मणि क्ते उपशयितो गुरुः शिष्येण / “शीश्रद्धा०" 5 / 2 / 37 इत्यालो शयनशीलः शयालुः / " युवर्ण० " 5 / 3 / 28 इति अलि संशयः " व्युपाच्छीङः" 5 / 3 / 77 इति घनि तव विशायः, मम विशायः; तव राजोपशायः, मम राजोपशायः / " समज०" 5 / 3 / 99 इति क्यपि शेरते अस्यामिति शय्या / आधारे अनटि शयनम् / शवानां शयनम् स्मशानमिति पृषोदरादिः / उणादौ "शीभी." ( उ० 71 ) इति आनके शयानकः अजगरः शैलश्च / शिखा शाखा इति तु "श्यतेरिच वा" ( उ० 85 ) इति खे श्यतेः / " शीरी." ( उ० 201) इति किति ते शीतम् / “दृपृभृ० " ( उ० 207) इत्यते शयतः निद्रालुः चन्द्रश्च / " न्युझ्या शीङः” ( उ० 228 ) इति किति थे निशेरते अस्मिन् इति निशीथः अर्धरात्रः रात्रिः प्रदोषश्च / उच्छीथः स्वप्नः टिटिभश्च / "भृशीशपि०" 1. तृनु इति मु० //