________________ 181 46 ] धातुपारायणे अदादयः (2) बोभोति; पापचीति, पापक्ति; वावदीति, वावत्ति; पास्पर्धीति, पास्पर्द्धि / " क्रियाव्यतिहारे " 3 / 3 / 23 इत्यात्मनेपदे "शीडा रत्४।२।११५ इत्यत्र डित् निर्देशेन यङ्लुबन्तस्याऽग्रहणाद् अन्तो रदाऽऽदेशाऽभावे " अनतो." 4 / 2 / 114 इत्यति " योऽनेकस्वरस्य " 2 / 1 / 56 इति यत्वे च व्यतिशेश्यते / “शीङ ए०" 4 / 3 / 104 इत्यत्रापि ङित् निर्देशात् " तिवा शवा० " [ न्याय० 18 ] इति यङ्लुबन्तस्याऽग्रहणम् / तेन एर्नास्ति / यङ्लुबन्तमात्मनेपदे न प्रयुज्यत इत्येके / भावकर्मणोः आत्मनेपदे न प्रयुज्यत इत्यन्ये / यङ्लुबन्तस्य चर्करीतं चर्करीतिश्च पूर्वेषां संज्ञा / यङ्लुयन्तं छन्दसि एवेति केचित् // अथाऽऽत्मनेपदिनः // 46 इंक अध्ययने ' / इङिकोः अधिना अवश्यंभावी योगः। यदाह " कश्चित्तमनुवर्तते" / ङित्वाद् " इङितः०" 3 / 3 / 22 इत्यात्मनेपदे अधीते, अधीयाते, अधीयते / " गाः परोक्षायाम् " 4 / 4 / 26 अधिजगे / अत्र परोक्षाविषये गाः, तेन प्राक् तु स्वरे स्वरविधेः इति प्रागेव द्वित्वं न भवति / " णौ सन्डे वा" 4 / 4 / 27 अधिजिगापयिषति, अध्यजीगपत् , पक्षे " णौ क्रीजीङः " 4 / 2 / 10 इत्यात्वे, “अतिरी०" 4 / 2 / 21 इति पौ च अध्यापिपयिषति, अध्यापिपत् / " वाद्यतनीक्रियातिपत्योर्गीङ्" 4 / 4 / 28 अध्यगीष्ट, अध्यगीष्यत; पक्षे " स्वरादेस्तासु" 4 / 4 / 31 इति वृद्धौ अध्यैष्ट, अध्यैष्यत / " "सनीङश्च" 4 / 4 / 25 इति गमौ " स्वरहन० " 4 / 1 / 104 इति दीर्घ च अधिजिगांसते / अनुस्वारेवान्नेट , अध्येता, अध्येतुम् / “गमोऽनात्मने" 4 / 4 / 51 इति सादेरादिरिद, अधिजिगमिषितव्यम् / " य एच्चातः" 5 / 1 / 28 इति ये अध्येयम् / णके अध्यायकः / ण्यन्तात् णके अध्यापकः / “कर्मजा तृचा च" 3 / 1183 इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमास: साध्यध्यापकः / ते अधीतम् / “इष्टादेः" . 1. तिथा 1, शवा 2, अनुवन्धेन 3, निर्दिष्टं यद्गणेन 4 च / एकस्वरनिमित्तं 5 च पञ्चैतानि न यङ्लुपि // (न्याय० 18) / 2. तु. यदाहु: "धात्वर्थ बाधते कश्चित् , कश्चित्तमनुवर्तते / तमेव विशिनष्ट्रयन्योऽनर्थकोऽन्यः प्रयुज्यते"। ( है. प्र. पृ. 653) / अन्यत्र तु इत्थमुत्तरार्ध दृश्यते, " विशिनष्टि तमेवार्थमुपर्गगतिस्त्रधा / (क्षी. त. पृ. 176 टि. ) // 3. परोक्षायां विं इति मु० // 4. सनीश्च इति मु० // WER THE