________________ 180 आचार्यश्रीहेमचन्द्रविरचिते [ धा० ४४अथ सान्तौ द्वौ सेटौ च // 44 असक भुवि / भवनं भूः सत्ता / अस्ति, असि / " नास्त्योः०" 4 / 2 / 90 इत्यल्लुकि स्त:, सन्ति / " प्रादुरूपसर्गाद्" 2 / 3 / 58 इति सस्य षत्वे प्रादुःण्यात् , प्रादुःषन्ति, अभिष्यात् , अभिषन्ति, निषन्ति, विषन्ति / " क्रियाव्यतिहारे० " 3 / 3 / 23 इति आत्मनेपदे “अस्तेः सि०" 4 / 373 इति सो लुकि व्यतिसे, हस्त्वेति व्यतिहे / " धातोरनेक० " 3 / 4 / 46 इत्यत्र भ्वस्त्योः एकतरानुप्रयोगेणैव साध्यस्य सिद्धेः उभयोरुपादानात् अस्तेः बादेशाऽभावे चकासामाहे चैत्रेण / " शासस्० " 4 / 2 / 84 इति ह्यन्तस्य एधिः, एधि / दिवि " सः सिजस्तेः०" 4 / 3 / 65 इति ईति आसीत् / अद्यतन्याम् “अस्तिब्रुवो:०" 4 / 4 / 1 इति भ्वादेशे " पिबैति०" 4 / 3 / 66 इति सिजलुपि इडभावे च "भवतेः०" 4 // 3 // 12 इति गुणाभावे अभूत् , अभृताम् / “भुवो वः०" 4 / 2 / 43 इत्युपान्त्यस्य ऊत्वे " सिज्विदो.” 4 / 2 / 92 इत्यत्र भुवो वर्जनाद् अन: पुसभावे च अभूवन् / णवि द्वित्वे " भूस्वपो:०" 41170 इति पूर्वस्य उतः अत्वे "नामिनो०" 4 / 3 / 51 इति वृद्धौ आवादेशे “भुवो वः०" 4 / 2 / 43 इत्युपान्त्यस्य ऊत्वे च बभूव / किति “धातोरिवर्णों 0 " 21150 इत्युवि उपान्योत्वे च बभूवतुः, बभूवुः / शतरि सन् , सती / अशिति " अस्तित्रुवो:०" 4 / 4 / 1 इति भूः, भविता, भविष्यति / क्तयोः " ऋवर्ण,यू०" 4 / 4 / 57 इत्यधिकृत्य " उवर्णात् " 4 / 4 / 58 इति नेट् , भूत:, भूतवान् / " य एच्चातः" 5 / 1 / 28 इति ये “व्यक्ये" 1 / 2 / 25 इत्यवि च भव्यम् / " कृम्वस्तिभ्यां०" 7 / 2 / 126 इति च्चौ शुक्लीस्याद् वस्त्रम् / असी गत्यादानयोश्च [ 1932 ] असते, असति, आस / असूच क्षेपणे [ 3678 ] अस्यति, अपास्थत् // '45 षसक स्वप्ने' / “पः सो." 2 / 398 इति सत्वे सस्ति, सस्तः, ससन्ति, ससास / “अनादेशादेः०" 4 / 1 / 24 इत्येत्वे द्वित्वाभावे च सेसतुः, सेसुः / ससिता, समितम् / पोपदेशत्वात् " नाम्यन्तस्था०" 2 / 3 / 15 इति षत्वे सिषासयिषति / उणादौ "षसेर्णित्" ( उ० 259) इति ने सास्ना / " स्थाछामा० " ( उ० 357 ) इति ये सस्यम् // 'यङ्लुक् च' / सर्वे धातवो यङलुबन्ताः किकरणाद् अदादौ, परस्मैपदिनश्च / " कर्तर्यनयः०" 3 / 471 इत्यत्र अदादिवर्जनात् शवभावे. "शेषात्" 3 / 3 / 100 इति परस्मैपदे " यतुरुस्तोर्बहुलम् " 4 / 3 / 64 इति ईति बोभवीति,