________________ 43 ] धातुपारायणे अदादयः (2) 179 " करणेभ्यः" 5 / 4 / 64 उपलघातं हन्ति / " हिसार्थादे०" 54 / 74 इति णमि दण्डोपघातं गाः कालयति / " तृतीयोक्तं वा" 3 / 1 / 50 इति वा समासः पक्षे दण्डेनोपघातम् / णौ करणेऽनटि परिघातनः, परिधः / उणादौ " कीचकपेचक." ( उ० 33) इत्यके निपातनाद् वधकः हन्ता, व्याधिश्व; वधकं पद्मबीजम् / बाहुलकादन्यत्रापि वधाऽऽदेशः / लिहायचि वृत्रवधः शक्रः। वधिता, वध्यः, वधनम् / " सीमन्त० " ( उ० 222 ) इत्यन्ते निपातनात् हेमन्त: / "नीनगमि०" ( उ० 227 ) इति किति थे हथः पन्थाः कालश्च / " हनेर्घतजघौ च" ( उ० 272) इति अने घतनः पापः, जघनं श्रोणिः / हिमम् हेमम् इति तु "क्षुहिभ्यां वा" ( उ० 341) इति वा किति मे हिनोतेः / "कोरचोर०" ( उ० 434 ) इति ओरे निपातनात् घोरः भीमः / " मावावद्य० " ( उ० 564) इति से हंसः / " कमिवमि० " ( उ० 618) इति णिदिः, घातिः प्रहरणम् / बाहुलकाद् घातादेशाभावे हानिः उच्छित्तिः, तत एव वा 'णिवे हनिः आयुधम् / " हन्तेरंहू च" ( उ० 654) इति अतौ अंहतिः व्याधिः, स्थश्च / “कहने:०" (उ० 791) इति तुकि हतुः हिमम् , नुकि बाहुलकात् नलुकि च हनुः कपोलाऽधः / अनेहा इति तु " नत्र ईहेरेहेधौ च" ( उ० 975 ) इत्यसि // अथ शान्तः सेट् च // 43 वशक कान्तौ' / कान्तिः इच्छा / " यजसृज० " 231187 इति षत्वे वष्टिः / “वशेरयडि" 4 / 1183 इति वृति उष्टः, उशन्ति / शतरि उशन् , उशती / ऊशतुः, ऊशुः / “यजादिवश०" 4 / 1 / 72 इति पूर्वस्य वृति उवाश / या वर्जनाद् वृदभावे पावश्यते / क्ये उश्यते / वशिता / ते उशितः / णौ नन्याधने वाशनः / " युवर्ण०" 5 / 3 / 28 इत्यलि वशः / " साक्षादादि०" 3 / 1 / 14 इति वा गतित्वे वशेकृत्य वशे कृत्वा गतः; गणनिर्देशात् सप्तम्यलुप् / उणादौ " घसिवशि०" ( उ० 419) इति किति ईरे उशीरं वरणीमूलम् / "वशेः कित्" (उ० 876 ) इति इजि उशिक् कान्तः, उशीरं च / “वष्टेः कनस् " ( उ० 985) उशनाः शुक्रः / वशिघसी छान्दसौ इत्यन्ये / भाषायामपि प्रयोगदर्शनादत्रोपात्तौ // .. 1. अणिदिकारपक्षे इत्यर्थः //