________________ 178 आचार्यश्रीहेमचन्द्रविरचिते [ धा० ४२निपातनात् क्यपि हत्या, ब्रह्महत्या / कर्मणि "ऋवर्ण० " 5 / 1 / 17 इति ध्यणि घात्यः / “आशिषि०" 5 / 1 / 80 इति डे शत्रु वध्यात् , शत्रुहः / “क्लेशादिभ्यो ऽपात् " 5 / 1681 क्लेशापहः, तमोपहः / “कुमारशीर्षाणिन् " 5 / 1182 कुमारघाती, शीर्षघाती / “अचित्ते टक" 5 / 1183 पित्तघ्नं घृतम् , वातघ्नं तेलम् / " जायापतेश्चिह्नवति" 5 / 184 जायाघ्नो द्विजः, पतिघ्नी कन्या / "ब्रह्मादिभ्यः" 5 / 185 ब्रह्मनः, शत्रुघ्नः / बाहुलकात् संप्रदानेऽपि गां हन्ति यस्मै दातुं स गोध्नोऽतिथिः / " हस्तिबाहुकपाटाच्छक्तौ" 5 / 1186 हस्तिघ्नः, बाहुघ्नः, कपाटनः मल्लः / शक्तेरन्यत्र हस्तिघातो रसदः, एवं बाहुघातः, कपाटघातः; एषु " कर्मणोऽण " 5 / 1 / 72 इति अणु / " नगरादगजे" 5 / 1187 नगरघ्नः अरिः / गजे तु नगरघातः / " राजघः" 5 / 1 / 88 राजानं हन्ति राजघः / " पाणिघताडघौ शिल्पिनि" 5 / 1 / 89 पाणिधः, ताडघः शिल्पी चेत् , अन्यत्र कर्मणोऽणि पाणिघात:, ताडघातः। एवं दार्वाधातः, चार्वाधातः, वर्णसंघातः / दार्वाघाटः, चार्वाघाट:, वर्णसंघाट इति तु घटतेर्हन्तेरेव वा पृषोदरादित्वात् / “हनो णिन् " 5 / 1 / 160 पिघाती, मातुलघाती / " ब्रह्मभ्रूण" 5 / 1 / 161 इति भूते विपि बह्महा, भ्रूणहा, वृत्रहा / " क्वचित् " 5 / 1 / 171 इति डे वरमाहन्ति वराहः, पटे हन्यते पटहः, कलं हन्ति कलहः / “युजभुज०" 5 / 2 / 50 इति घिनणि अभ्याहननशील: अभ्याघाती / " शकम०" 5 / 2 / 40 इत्युकणि आघातशीलः आघातुकः / "हनोऽन्तधनान्तर्घणौ देशे" 5 / 3 / 34 अन्तर्हन्यते यस्मिन् अन्तर्घनः, अन्तर्घणो वा देशः; अन्तर्घातोऽन्यः / " प्रघणप्रघाणौ गृहांशे" 5 / 3 / 35 प्रघणः, प्रघाणश्च द्वारालिन्दकः / “निघोद्घसंघोद्धनापधनोपघ्नं निमितप्रशस्तगणात्याधानाऽङ्गाऽऽसन्नम्" 5 / 3 / 36 निघा वृक्षाः, निघाः शालयः, उद्घो मनुष्यः प्रशस्त इत्यर्थः / " मूर्तिनिचिताभ्रे घनः" 5 / 3 / 37 दघ्नो घनः काठिन्यमित्यर्थः / घनं दघि इति गुणवचनत्वात् घनं निचितम् , घनः अभ्रम् / “व्ययोद्रोः करणे" 5 / 3 / 38 विघनः, अयोधनः, द्रुधनः / अरीहणादिपाठाद् णत्वे द्रुघणः / " स्तम्बाद् घनश्च" (5 / 3 / 39 स्तम्बध्नो दण्डः, स्तम्बधनः / " परेघः" 5 / 3 / 40 परिघः / " परेर्षा० " 2 / 3 / 103 इति लत्वे पलिघः / " स्थादिभ्यः" 5 / 3 / 82 इति के विहन्यते अनेन विघ्नः / " हनो वा वध च" 5 / 3 / 46 इति वालि वधः घातः / वध्य इति वधे ध्यणि, " न जन" 4354 इति वृद्धिप्रतिषेधाद् वधमर्हति इति वा दण्डादेः ये / “सातिहेति०" 5 / 3 / 64 इति क्तौ निपातनात् हेतिः / " हनश्च० " 5 / 4 / 63 इति णमि समूलघातं हन्ति /