________________ 41 ] धातुपारायणे अदादय: (2) 175 " गोचरसंचर०" 5 / 3 / 131 इति निपातनाद् घे वक्तीति वकः, क्ते उक्तम् / लिहायचि श्लोकवचः / उणादौ " नीनूरमि०" ( उ० 227) इति किति थे उक्थम् साम / “ट्" (उ० 446) इति त्रटि वक्त्रम् / " ककस्थूराद् वचः क च" ( उ० 728 ) इत्युणि कुकवाकुः कुक्कुटः, स्थूरवाकुः उच्चध्वनिः / “अस्" ( उ० 952 ) इत्यसि वचः / वचण भाषणे [ 9 / 387 ] वाचयति, युजादित्वाद् वा णिचि पक्षे वचति // अथ जान्तः // __ '39 मृजौक शुद्धौ' / " मृजोऽस्य 0" 4 / 3 / 42 इति वृद्धौ “यजसृज०" 2 / 1 / 87 इति पत्वे मार्टि, मृष्टः / " ऋतः स्वरे वा" 4 / 3 / 43 इति वा वृद्धौ परिमार्जन्ति, परिमृजन्ति, ममातुः, ममृजतुः, ममार्जुः, ममृजुः / औदिचात् वेट् , मार्टी, मार्जिता / वेट्त्वात् क्तयोर्नेट् , मृष्टः, मृष्टवान् / “कृवृषि०" 5 / 1142 इति वा क्यनि परिमृज्यः, पक्षे ध्यणि "तेऽनिट०" 4 / 1 / 111 इति गत्वे परिमार्यः / " शोकापनुद० " 5 / 1 / 143 इति निपातनात् के तुन्दपरिमृजः अलसः, अन्यत्र कर्मणोऽणि तुन्दपरिमार्जः / घजि मार्गः / भिदायङि मृजा शुद्धिः, अन्यत्र स्त्रियां क्तौ मृष्टिः / उणादौ " अग्यङ्गि०" ( उ० 405) इति आरे मार्जारः, लत्वे मार्जालः / “मृजिखन्या० " ( उ० 472 ) इति डित्यले मलः / मृजौण शौचालङ्कारयोः [9 / 390 ] युजादित्वात् वा णिचि माजयति / " णिवेच्या० " 5 / 3 / 111 इत्यने मार्जना, ते मार्जितः / मर्जिता रसाला इति रूढेः, पक्षे माजेति // ___ अथ तान्तः // '40 सस्तुक स्वप्ने' / उदित्वान्ने “धुटो धुटि स्वे वा" 1 / 3 / 48 इति तो लुकि च संस्ति, संस्तः, संस्तन्ति, संस्तिता // ___ अथ दान्तः // '41 विदक ज्ञाने' / " तिवां णव०" 4 / 2 / 117 इति वा णवाद्यादेशे वेद, विदतुः, विदुः, पक्षे वेत्ति, वित्तः, विदन्ति / " समो गमृच्छि० " 3 / 3 / 84 1. " हुयामा०" ( उ० 451 ) इति त्रप्रत्ययेऽपि वक्त्रम् भवति // 2. कुकुट: इति मु० // 3. मार्जिता इति मु० / “मार्जिता रसाला मर्जितेति रूढेः" इति चुरादौ [ 390 ] अत्रैव वक्ष्यते //