________________ 174 आचार्यश्रीहेमचन्द्रविरचिते [ धा० 363 / 4 / 46 इति परोक्षाया आमि चकासाश्चकार / सनि चिचकासिषति / चकासिता, चकासितुम् / ऋदित्वात् डे न ह्रस्वः, अचचकासत् // '37 शामक अनुशिष्टौ' / अनुशिष्टिः नियोगः / शास्ति / " इसासः शासोङ् व्यञ्जने" 4 / 4 / 118 “नाम्यन्तस्थाः०" 2 / 3 / 15 इति षत्वे च शिष्टः / " शास्त्यसू० " 3 / 4 / 60 इत्यङि अशिषत् / " द्वयुक्तजक्ष०" 4 / 2 / 93 इति . शिदनः पुसि अशासुः / अन्तो नो लुकि शासति / शतरि शासत् , शासतौ / " व्यञ्जनाद् देः०" 4 / 3 / 78 इति देलुकि सो दत्वे च, सः अन्वशात् / " सेः स-द्-धां०" 4 / 3 / 79 इति सेलुकि सो रुत्वे च अन्वशाः त्वम् , अन्वशात् त्वम् / " शासस्० " 4 / 2 / 84 इति ह्यन्तस्य शाधौ, शाधि, अनुशाधि / शासिता / ऊदित्त्वात् क्त्वि वेट , शिष्ट्वा, शासित्वा / वेट्त्वात् क्तयोर्नेट , शिष्ट: , शिष्टवान् / विपि मित्रशीः / क्तौ शिष्टिः / “इकिश्तिव्०" 5 / 3 / 138 इति तिवि शास्तिः / " उपान्त्यस्या० " 4 / 2 / 35 इत्यत्र शासेवर्जनात् डे हस्वाभावे अशशासत् / " दृवृग्० " 5 / 1 / 40 इति क्यपि शिष्यः / “शाम्रयुधि०" 5 / 3 / 141 इत्यने दुःशासनः, सुशासनः / उणादौ "शासिशंसि०" (उ० 857) इति तः, शास्ता बुद्धः; प्रशास्ता ऋत्विक / " तृस्वसृ० " 1 / 4 / 38 इत्यारि प्रशास्तारो। आङः शासूकि इच्छायाम् [ 2160 ] आशास्ते, आशास्यते, आशीशसत् , आशीः / / रुजक्षपञ्चके समाप्य प्रकृतो वर्णक्रमोऽनुस्रियते // अथ चान्तः॥ '38 वचंक भाषणे ' / वक्ति, वक्तः, वचन्ति / अन्तौ वचेः प्रयोग नेच्छन्त्येके / " यजादिवश" 4 / 1 / 72 इति पूर्वस्य रवृति उवाच / “यजादिवचेः०" *4 / 179 इति वृति ऊचतुः ऊचुः / क्ये उच्यते / “शास्त्यमू०" 3460 इत्यङि " श्वयत्य०" 4 / 3 / 103 इति वोचाऽऽदेशे अवोचत् / अनुस्वारेच्चान्नेट , वक्ता, वक्तुम् / " प्रवचनीया०" 5 / 1 / 8 इति वा कर्तयनीये प्रवचनीयो गुरुधर्मस्य, पक्षे प्रवचनीयो धर्मो गुरूणा / " ऋवर्ण०" 5 / 1 / 17 इति ध्यणि प्रवाच्यः ग्रन्थविशेषः, अत्र " त्यजयज०" 4 / 1 / 118 इति कत्वाऽभाव: / “वचोऽशब्दनाम्नि" 4 / 1 / 119 कत्वाभावे वाच्यम् आह / शब्दनाम्नि तु "क्तेऽनिट०" 4 / 1 / 111 इति करवे वाक्यम् / “वेयिवद०" 5 / 2 / 3 इति भूतमात्र निपातनाद् वा काने अनूचानः, पक्षे अन्क्वोचत् / " भावाकोंः " 5 / 3 / 18 पनि अनुवाकः, वाकः / " दिद्युद्-ददृद्" 5 / 2 / 83 इति विपि निपातनात् वचनशीलो वाक् /