________________ 173 36 ] धातुपारायणे अदादयः (2) ददिद्राञ्चकार / " आतो णव०" 4 / 2 / 120 इत्यत्र ओकारेणैव पपौ इत्यादिसिद्धौ औकारविधानं दरिद्रातर्णवः आमादेशानित्यत्वार्थम् , ददरिद्रौ / क्वसौ दरिद्राञ्चकृवान् / शिवस्तु णवोऽन्यस्य अपि आमादेशमनित्यमिच्छति, ददरिद्रवान् / “युक्तजक्ष०" 4 / 2 / 93 इति शिदनः पुसि " इडेत्” 4 / 3 / 94 इत्याल्लुकि अदरिद्रुः / णौ दरिद्रयति / णौ डे अददरिद्रत् / णौ विषये आल्लुकं नेच्छन्त्यन्ये, दरिद्रापयति / डे " उपान्त्यस्या० " 4 / 2 / 35 इति हस्वत्वे अददरिद्रपत् / नन्वत्र सन्वद्भावात् पूर्वस्यत्वं प्राप्नोति; नैवम् , ' येन नाव्यवधानं तेन व्यवहितेऽपि स्यात्' [न्याय० 13] इत्येकवर्णव्यवहिते लघौ लघोः परेण चैकवर्णेन व्यवहिते उपरे णौ सन्वद्भावो भवति यथा अपीपचत् इत्यादौ / अवीव्रजत् इत्यादौ तु " स्मृदृत्वर०" 41165 इत्यत्वविधानाद् अनेकव्यानव्यवहितेऽपि लघुनि इष्यते / इह तु लघोरव्यवधानेऽपि लघोः परेण वर्णसमुदायेन र्व्यवधेति न भवति / दरिद्रिता, दरिदितुम् / वेट्त्वेऽप्यनेकस्वरत्वात् क्तयोरिट, दरिद्रित: दरिद्रितवान् / अचि धनि वा दरिद्रः / दर्दूः इति तु " तृदृभ्यां दूः” ( उ० 846 ) इति दुणातेः / '35 जागृक निद्राक्षये' / जागर्ति, जागृतः / अन्तो नो लुकि जाग्रति / शतरि जाग्रत् , जाग्रतौ / " द्वयुक्तजक्ष०" 4 / 2 / 93 इति शिदनः पुसि " पुस्पौ" 4 / 3 / 3 इति गुणे अजागरुः / जजागार / " जागुः किति" 4 / 3 / 6 इति गुणे जजागरतुः, जजागरुः / पक्षे " जाग्रुष०" 3 / 4 / 49 इति परोक्षाया आमि जागराञ्चक्रतुः, जागराञ्चक्रुः / " सिचि परस्मै० " 4 / 3 / 44 इति वृद्धेः " नश्विजागृ० " 4 / 3 / 49 इति प्रतिषेधे अजागरीत् / “जागुर्बिणवि" 41352 इति वृद्धेः जिणवोरेव नियमात् , " नामिनो०" 4 / 3 / 51 इति वृद्धयभावे गौ गुणे जागरयति, जागरिता, जागरितुम् / क्तयोः जागरितः जागरितवान् / "जागुः" 52 / 48 इत्यूके जागरणशिलो जागरूकः / स्त्रियां क्त्यपवादौ "जागुरश्च" 5 / 3 / 104 इति अ-यो जागरा, जागर्या / उणादौ " जशस्त." ( उ० 705 ) इति ङिति वो जागृविः अग्निः // '36 चकासृक् दीप्तौ' / चकास्ति, चकास्त: / अन्तो नो लुकि चकासति शतरि चकासत् , चकासतौ / “द्वयक्तजक्ष०" 4 / 2 / 93 इति शिदनः पुसि अचकासुः / " व्यञ्जनाद् देः०" 4 / 3 / 78 इति दे कि सस्य दत्वे च, सः अचकात् / " सेः स्धा०" 4 / 3 / 79 इति सेलुकि सो वा रुत्वे च अचकाः त्वम् , पक्षे “धुट० " 2 / 1 / 76 इति सस्य दत्वे अचकात् त्वम् / “धातोरनेक० "