________________ 172 आचार्यश्रीहेमचन्द्रविरचिते [ धा० ३१इटि अनिति / " द्वित्वेऽप्यन्तेऽप्य० 2 // 381 इति णत्वे प्राणिति, पराणिति, प्राणिणिषति / अन्तेऽपि इति वचनात् क्विपि हे प्राण ! हे पराण ! परेस्तु वा पर्यणिति, पर्यनिति / " अस्यादे." 4 / 1 / 68 इति पूर्वस्य आत्वे आन, आनतुः / " दिस्यो." 4 / 4 / 89 इति ईटि प्राणीत् , प्राणीः / " अदश्चा०" 4 / 4 / 90 इत्यटि प्राणत् / प्राणः, प्राणिता, प्राणितुम् / अचि घनि वा प्राणः / घनि आनः / उणादौ " स्यमिकषि०" ( उ० 46 ) इति ईके अनीकम् / “प्याधा." ( उ० 258 ) इति ने अन्नम् / " स्थाछा०" ( उ० 357) इति ये अन्यः / " अस्" ( उ० 952 ) इत्यसि अनः शकटम् // ___ '32 श्वसन' / तालव्यादिः दन्त्यान्तः / “रुत्पश्चका०" 4 / 4 / 88 इति इटि श्वसिति, निःश्वसिति, श्वसितः, श्वसन्ति, शश्वास / " व्यञ्जनादे०" 4 / 3 / 47 इति वा वृद्धौ अश्वासीत् , अश्वसीत् / " दिस्यो०" 4 / 4 / 89 इति ईटि अश्वसीत् , अश्वसीः; " अदश्चा०" 4 / 4 / 90 इत्यटि अश्वसत् , अश्वसः / श्वसिता, श्वसितम् / " श्वसजप०" 4475 इति क्तयोर्केट् , आश्वस्तः, आश्वसितः, आश्वस्तवान् , आश्वसितवान् / " तन्व्यधी० " 5 / 1164 इति णे श्वासः / / '33 जक्षक भक्ष-हसनयोः' / अयं रुत्पश्चकस्य पश्चमो, जक्षपञ्चकस्य वाद्य इत्युभयकार्यभाक् / “रुत्पश्चका०" 4 / 4 / 88 इति इटि जैक्षिति जक्षितः / " द्वयुक्तजक्ष०" 4 / 2 / 93 इति शिदनः पुसि अजक्षुः / “अन्तो नो लुक्" 4 / 2 / 94 जक्षति, जक्षतु, शतरि जक्षत् / “शौ वा" 4 / 2 / 95 जक्षति, जक्षन्ति कुलानि / " दिस्यो." 4 / 4 / 89 इति ईटि अजक्षीत् , अजक्षीः / " अदश्वा०" 4 / 4 / 90 इत्यटि अजक्षत् , अजक्षः / जक्षिता, जक्षितुम् , जजक्ष, जजक्षतु: // 34 दरिद्राक दुर्गती'। दरिद्राति / " इर्दरिद्रः" 4 / 2 / 98 दरिद्रितः / अन्तो नो लुकि "श्नश्चातः " 4 / 2 / 96 इत्याल्लुकि च दरिद्रति / “दरिद्रोऽद्यतन्यां वा" 4 / 3 / 76 अदरिद्रीत् अदरिद्रासीत् / “अशित्यस्सन्” 4 / 3 / 77 इत्याल्लुकि दरिद्रयते, स्सन्नादिवर्जनात् दिदरिद्रासति / " इवृध० " 4 / 4 / 47 इति वेटि दिदरिद्रिपति, सादेरेव सनो वर्जनात् इहाल्लुक् / दरिद्रायको व्रजति, अत्र “क्रियायां०" 5 / 3 / 13 इति णकच् / णके दरिद्रायकः / अनटि दरिद्राणम् / शतरि दरिद्रत् , दरिद्रतौ / " धातोरनेकस्वरा० " 3 / 4 / 46 इत्यामि 1. स्सनादि इति मु० //