________________ 171 31 ] धातुपारायणे अदादयः (2) ' 28 कुंक' / कौति, कुतः, कुवन्ति, चुकाव / अनुस्वारेवान्नेट् , कोता कोतुम् / सनि चुकूषति / यङि “न कवते." 41147 इति म्वादेरेव प्रतिषेधात् “कङश्चञ्" 4 / 1 / 46 इति पूर्वस्य चत्वे चोकूयते / उणादौ "दकन०" ( उ० 27 ) इत्यके कवकम् अभक्ष्यद्रव्यम् / “दुकूल" ( उ० 49.1 ) इति ऊले निपातनात् कुकूलम् शङ्कमद्गतः / कुङ् शब्दे [ 11590 ] कवते / यङि कोकूयते / कुंड्त् शब्दे [ 5 / 149 ] कुवते, चोकूयते / एषां शब्दार्थत्वेऽपि कौतिः शब्दमात्रे, कुवतिः आर्तस्वरे, कवतिः अव्यक्ते शब्दे / अथान्तर्गणो रुदादिपञ्चकः // '29 रुदक् अश्रुविमोचने ' / " रुत्पंचका 0" 4 / 4 / 88 इति इटि रोदिति, रुदितः; रुदन्ति; तत्र व्यञ्जनादेरित्यधिकाराद् अत्रेट् नास्ति / रुरोद / “दिस्योरीट्" 4 / 4 / 89 अरोदीत् , अरोदीः / " अदश्चाट्" 4 / 4 / 90 अरोदत् अरोदः / " ऋदिच्छ्वि " 3 / 4 / 65 इति वाडि अरुदत् , अरोदीत् / रोदिता, रोदितुम् / "रुदविद०" 4 / 3 / 32 इति कृत्वासनोः किल्वे रुदित्वा, रुरुदिषति / उणादौ " ऋज्यजि०" ( उ० 388 ) इति किति रे रुद्रः / रोदयतीति वा “खुरक्षुर०" ( उ० 396) इति निपातनाद् रुद्रः / “रुद्यति" (उ० 997 ) इत्युसि रोदुः अश्रुनिपातः // '30 जिष्वपंक शये' / “रुत्पंचका०" 4 / 4 / 88 इति इटि स्वपिति, स्वपितः, स्वपन्ति / “भूस्वपो०" 4170 इति पूर्वस्य उत्वे सुष्वाप / षोपदेशत्वात् " नाम्यन्तस्था० " 2 / 3 / 15 इति पत्वे, “स्वपेर्यड़े च” 4 / 1180 इति वृति सुषुपतुः, सुषुपुः / जीचात् " ज्ञानेच्छा!" 5 / 2 / 92 इति सति क्ते सुप्तः / निर्दुःसुविपूर्वस्य अवः स्वपत्याद्यस्याऽपि सस्य पत्वे नि:पुप्तः, दुःषुप्तः, सुषुप्तः, विषुप्तः / अनुस्वारेवान्नेट् , स्वप्ता, स्वप्तुम् / “रुदविद०" 4 / 3 / 32 इति सन: कित्त्वे सुषुप्सति / यङि सोषुप्यते / णौ सनि " स्वपो णावुः" 4 / 1 / 62 इति पूर्वस्य उत्वे सुष्वापयिषति / डे असूषुएत् / “दिस्योरीट् " 4 / 4 / 89 अस्वपीत् अस्वपीः / “अदश्वा०" 4 / 4 / 90 इत्यटि अस्वपत् अस्वपः / अद्यतन्यां अस्वाप्सीत् / " तृपिवृषि०" 5 / 2 / 80 इति नजिङि स्वप्नक / “यजिस्वपि०" 5 / 3 / 85 इति ने स्वप्नः / असरूपत्वात् पक्षे पनि स्वापः / क्त्वि सुप्त्वा // '31 अन 32 श्वसक् प्राणने' / प्राणनं जीवनम् / वर्णक्रमस्य प्रतिज्ञानात् स्वपः प्राग् अनेनिर्देशे प्राप्ते लाघवार्थमिहपाठः / " रुत्पञ्चका." 4 / 4 / 88 इति