________________ 170 आचार्यश्रीहेमचन्द्रविरचिते [धा० 25__ '25 स्नुक् प्रस्नवने' / प्रस्नवनं क्षरणम् / स्नौति, स्नुतः, स्नुवन्ति / क्ये “दीर्घत्रिच्च०" 4 / 3 / 108 इति दी स्नूयते / प्रस्नविता / " स्नोः" 4 / 4 / 52 इत्यात्मनेपदाभावे एव इनियमादात्मनेपदे नेट् , प्रस्नोष्यते / कर्मकर्तरि "एकधातौ० " 3 / 4 / 86 इति जिक्यात्मनेपदेषु प्राप्तेषु “भूषार्थ०". 3 / 4 / 93 इति जिक्ययोः प्रतिषेधात् प्रास्नोष्ट गौः स्वयमेव, प्रस्नुते गौः स्वयमेव / सुस्नाव, सुस्नुवतुः, सुस्नुवुः / यङि सोस्नूयते / यङ्लुपि सोस्नोति, सोस्नवीति / सनि " ग्रहगुह०" 4 / 4 / 59 इति नेट् , सुस्नूषति / उणादौ " स्नुपूसू०" (उ० 542) इति किति षे स्नुषा / '26 टुक्षु 27 रु 28 कुंक शब्दे' / क्षौति, क्षुतः, क्षुवन्ति, चुक्षाव, क्षविता, क्षवितुम् / यङि चोक्षूयते / यङ्लुपि चोक्षोति, चोक्षवीति / “य एच्चा०" 5 / 1 / 28 इति ये क्षव्यम् / " उवर्णादावश्यके " 5 / 1 / 19 इति ध्यणि क्षाव्यम् अवश्यम् / सनि " ग्रहगुह० " 4 / 4 / 59 इति नेट् , चुर्षति / किति "उवर्णात्" 4 / 4 / 58 इति नेट् , क्षुत्वा, क्षुतम् , क्षुतः, क्षुतवान् / “युवर्ण०" 5 / 3 / 28 इत्यलि क्षवः / विपूर्वात् " क्षुश्नोः" 5 / 3 / 71 इति घजि विक्षावः / ट्वित्वादथुः क्षवथुः / " क्रुत्संपदा०" 5 / 3 / 114 इति क्विपि क्षुत् / उणादौ "स्थाक्षुतोरूच्च" ( उ० 185 ) इति णे खूणम्-अपराधः // '27 रु' / रौति / " यतुरुस्तो०" 4 / 3 / 64 इति ईति स्वीति; रुतः, रुवन्ति, रविता, रुराव / सनि " ग्रहगुह० " 4 / 4 / 59 इति नेट् , रूपति / यङि रोरूयते / यङ्लुपि रोखीति रोरोति / किति " उवर्णात्" 44 / 58 इति नेट् , रुत्वा, रुतम् , रुतः, रुतवान् / “युवर्ण" 5 / 3 / 28 इत्यलि रवः / अलपवादे " रोरुपसर्गात् " 5 / 3 / 22 इति पनि संरावः / " आङा रुप्लोः" 5 / 3 / 49 इति 'वालि आरावः आरवः / " चालशब्दार्था०" 5 / 2 / 43 इत्यने रवणशीलो रवणः / “क्वचित् " 5 / 1 / 171 इति डे मयां रौति मयूरः पृषोदरादित्वात् / उणादौ " तृकश० " ( उ० 187 ) इति अणे वणः करमः / “शेर्वा" (उ० 235 ) इति वा कित्यथे रुवथः शकुनिः, स्वथः-आक्रन्दः / “स्वरेभ्य इ." (उ० 606) रविः / " रुपूम्यां कित् " ( उ० 808) इति रौ रुरुः मृगः / " विहायस्०” (उ० 976) इत्यसि निपातनात् पुरु रौति पुरूरवा-राजा / रंङ् रेषणे च [ 11599 ] रखते रोता // 1. वा घञि इति मु० //