________________ 24 ] धातुपारायणे अदादयः (2) 169 "युद्रोः" 5 / 3 / 59 इति संपूर्वाद् पनि संयावः गुड गोधूमः / उत्पूर्वात् " युपुद्रोपन" 5 / 3 / 54 उद्यावः / “सातिहेति" 5 / 3 / 94 इति क्तो निपातनात् युतिः सङ्घः, गोयूतिः / पृषोदरादित्वात् गव्यूतिः / क्त्वि "उवर्णात् " 4 / 4 / 58 इति इडभावे युत्वा / उणादौ " घुयुहि० " ( उ० 24 ) इति के दीर्धे च यूका / " पथयथ० " ( उ० 231) इति निपातनात् यथः / “युसुकु." ( उ० 297 ) इति पे ऊत्वे च यूपः / " योरूच्च वा” ( उ० 541) इति षे वृषः पेयविशेषः, यूषा छाया, योषा स्त्री / “युजलेराषः" ( उ० 545) यवाषो दुरालभा / “वहियुभ्यां वा" ( उ० 571 ) इति वा णित्यसे यावंसं भक्तम् तृणं च; यवस घासः अन्नं च / “युब लिभ्यामासः" (उ० 574 ) यवासो दुरालभा / “योः कित्" ( उ० 658) इत्यतौ युवतिः / "वीयुसुवा०" ( उ० 677) इति नौ योनिः / " नीसा०" (उ० 687 ) इति मौ योमिः शकुनिः / “लूपूयु०" ( उ० 901) इति कित्यनि युवा / 'अयुतसिद्धानाम् ' इत्यादि दर्शनादमिश्रणे युः, इत्यन्ये / युंग्श् बन्धने [ 86] युनीते, युनाति, योता / युणि जुगुप्सायाम् [9 / 237] यावयते / अर्थविशेषे चुरादित्वात् जुगुप्साया अन्यत्र यौति // ... 23 णुक् स्तुतौ' / " पाठे० " 2 / 3 / 97 इति णस्य नत्वे नौति, नुतः, नुवन्ति / णोपदेशत्वाद् " अदुरुपसर्गा०" 2 / 3 / 77 इति णत्वे प्रणौति, परिणौति / " नुप्रच्छः " 3 / 3 / 54 इत्यापूर्वादात्मनेपदे आनुते सृगालः / सनि “ग्रह गुह०" 4 / 4 / 59 इति नेट् . नुनूषति / नुनाव, नविता, नवितुम् / " उवर्णादा० " 5 / 1 / 19 इति यापवादे ध्यणि नाव्यम् अवश्यम् / अचि नवः, प्रणवः / किति " उवर्णात् " 4 / 4 / 58 इति नेट् , नुत्वा, नुतः, नुतवान् , नुतिः / " उक्षितक्ष्य० " ( उ० 900 ) इति अनि नव पदार्थाः // ___ '24 क्ष्णुक तेजने' / क्ष्णौति, क्ष्णुतः, क्ष्णुवन्ति / " समः क्ष्णोः" 3 / 3 / 29 इत्यात्मनेपदे संक्ष्णुते शस्त्रम् / क्ष्णविता / यङि चोक्ष्णूयते, यङ्लुपि चोक्ष्णोति / सनि " ग्रहगुह०" 4 / 4 / 59 इति नेट् , चुक्ष्णूपति // 1. इति थे इति प० प्रतौ // 2. एतस्या लोके जवासउ इति प्रसिद्धिः / (नि. शे. टी. 2 / 228 ) //