________________ 168 आचार्यश्रीहेमचन्द्रविरचिते [ धा० १८वेनिः-व्याधि दी च / वेणुः इति तु " अजिस्था० " ( उ०. 768) इति णौ अजेः / " अस" ( उ० 952) इति असि वयः / प्रज्ञाद्यणि वायसः // ___अथोदन्ता दश // . 19 jक अभिगमे' / " उत औ० " 4 / 3 / 59 इति औः, द्यौति, द्युतः, युवन्ति, दुधाव / थवि " सृजि-दृशि० " 4 / 4 / 78 इति वेटि दुयोथ, दुधविथ / अनुस्वारेचान्ने, द्योता, द्योतुम् / यङि दोधूयते / यङ्लुपि दोद्योति, दोद्यवीति / वनि सुद्योवा, क्वनिपि सुद्युत्वा, विचि द्यौः / “य एचातः " 5 / 1 / 28 इति ये, " व्यक्ये " 1 / 2 / 25 इत्यवि च द्यव्यः / " उवर्णा० " 5 / 1 / 19 इति ध्यणि द्याव्यम् अवश्यम् / उणादौ " द्रुभ्याम्" (उ० 744) इति डिदुः, युः / "घुगमिभ्यां डोः" ( उ० 867) द्यौः // 20 पुंक् प्रसवैश्वर्ययोः' / "पः सो०" 2 / 3 / 98 इति सत्वे "उत औ०" 4 // 359 इत्यौत्वे च सौति, सुतः, सुवन्ति / पोपदेशत्वात् " नाम्यन्तस्था०" 2 // 3 // 15 इति षत्वे सुषाव / अनुस्वारेचान्नेट् , सोता, सोतुम् / अपोपदेशोऽयमित्येके सुसाव / उणादौ " सुसितनि० " ( उ० 203) इति ते वा दीर्घे च सुतः पुत्रः, सूतः सारथिः / " युसुकु० " ( उ० 297 ) इति पे ऊत्वे च सूपः / सं प्रसवैश्वर्ययोः (1 / 17) सवति / धुंगटु अभिषवे (4 / 1) सुनोति // / '21 तुक् वृत्तिहिंसापूरणेषु' / " उत औ० " 4 / 3 / 59 इति औत्वे तौति / " यतुरुस्तो०" 4 / 3 / 64 इति ईति तवीति; तुतः, तुवन्ति, तुताव / अनुस्वारेवान्नेट , तोता तोतुम् / उणादौ ' भीणशलि.' ( उ० 21 ) इति के तोकम् अपत्यम् / " घुयुहि० " ( उ० 24 ) इति के दीर्षे च तूक: उपस्थो गिरिश्च / " युसुकुरु० " ( उ० 297 ) इति पे ऊत्वे च तूपः आयतनश्शेिषः // '22 युक मिश्रणे ' / यौति, युतः, युवन्ति, युयाव / थवि " स्क्रसवृ० " 4 / 4 / 81 इति इटि युयविथ, यविता, यवितुम् / सनि " ग्रहगुह० " 4 / 4 / 59 इति इडभावे प्राप्ते तदपवादे " इवृध०" 4 / 4 / 47 इति वा इटि " ओजान्तस्था०" 4 / 1 / 60 इति पूर्वस्येत्वे यियविषति / पक्षे युयूषति / वेटत्वात् क्तयोर्नेट, युतः, युतवान् / " आसुयु० " 5 / 1 / 20 इति यापवादे घ्यणि याव्यम् / नन्द्याधने यवनः / मनि सुयोमा / वनि सुयोवा / विचि सुयौः / विपि सुयुत् / " युवर्ण " 5 / 3 / 28 इत्यलि यवः / प्रज्ञाद्यणि यावः अलक्तकः / स्वार्थे के यावकः /