________________ 18 ] धातुपारायणे अदादयः (2) इत्वरी / मनि स्वेमा, वनि स्वेवा / क्वनिपि स्वित्वा / विचि स्वेः। विपि एति इति इत् / “युवर्ण०" 5 / 3 / 28 इत्यलि अयः, अन्ययः, समयः / " इणोऽभ्रेषे" 5 / 3 / 75 इत्यलपवादे पनि न्यायः / “परेः क्रमे" 5 / 3 / 76 पर्यायः; क्रमादन्यत्रालि विपर्ययो मतेः / " समज० " 5 / 3 / 99 इति क्यपि इत्या / " न्यायावाया०" 5 / 3 / 134 इति निपातनात् करणे पनि न्यायः / उणादौ " कुवापा० " ( उ० 1) इत्युणि आयुः नरः, पुरूरवः, पुत्रः, जीवनं च; जरायुः गर्भवेष्टनम् , जटायुः पक्षी / " मीणशलि." ( उ० 21) इति के एकः / " इणुविशा० " ( उ० 182 ) इति णे एणः / “दम्यमि०" (उ० 200) इति ते एतः वर्णः / " अवभृ०" (उ० 229) इति किति थे समिथः संगमः। "जीणशी" ( उ० 261 ) इति किति ने एनः / " इणः कित्" (उ० 328) इति भे इभः / " इण्वाग्भ्यां वा" (उ० 389) इति वा किति रे इरा सूरा, भूश्च / एरा एडका / " खुरक्षुर० " ( उ० 396) इति रे निपातनाद् दुःपूर्वस्य [इणः ] दरम् / “समिण " ( उ० 598 ) इति आः, समया गिरिम् / "अस्" ( उ० 952) इत्यसि अयः लोहम् / " इणो णित् " (उ० 998) इति उसि आयुः, आयुषी / " अर्तीणभ्यां नस्" ( उ० 979) एनः पापम् / आग इति तु अगेः " वस्त्यगिभ्यां णित् " ( उ० 970 ) इत्यसि // . अथेदन्तोऽनिट् च // 18 वींक् प्रजन-कान्त्यसनखादने च'। चकाराद् गतौ / प्रजनः प्रथमगर्भग्रहणम् , असनं क्षेपः, अशनं तृप्तिरित्येके / वैति, वीतः, वियन्ति, विवाय, विव्यतुः, विव्युः / अत्र "असिद्धं बहिरङ्गमन्तरङ्गे" [न्याय-२० ] इति यत्वस्यासिद्धत्वाद् " भ्वादे०" 2 / 1 / 63 इति पूर्वस्य दीर्घाभावः / अनुस्वारेवान्नेट , वेता, वेतुम् / “वियः प्रजने" 4 / 2 / 13 इति वात्वे पुरोवातो गाः प्रवापयति, पक्षे " नामिनो०" 4351 इति वृद्धौ प्रवाययति / क्ते वीतम् असारं हस्त्यश्वम् / “तिककृतौ नाम्नि" 5 / 1 / 71 इति तिकि वीतिः अश्वः / उणादौ "वीपतिपटिभ्यस्तनः" (उ० 292) वेतनं भृतिः / " हुयामा०" (उ० 451) इति त्रे वेत्रः / " तसश्च" (दृ० उ० 580 ) इति तसे वेतसः / “कावावी." - (उ० 634) इति णौ वेणिः 'कबरी / “वीयुसु०" (उ० 677) हात नौ 1. कवरी इति मु० //