________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा० 16 ... अथेदन्तावनिटौ च // - 16 इंक् स्मरणे' / “स्मृत्यर्थ० " 2 / 2 / 11 // इति वा कर्मणः कर्मत्वे "शेषे” 2 / 2 / 81 // इति षष्ठयां मातुरध्येति, मातरमध्येति / " इको वा" 4 / 3 / 16 / इति वा यत्वे अघियन्ति / पक्षे इयादेशे अधीयन्ति / " इणिकोर्गाः" 4 / 4 / 23 / इति गाऽऽदेशे " पिबैति" 4 / 3 / 66 / इति सिजलुपि च अध्यगात् / “क्रियाव्यतिहारे० " 3 / 3 / 23 / इत्यात्मनेपदे व्यत्यध्यगास्त / " भावकर्मणोः"' 3 / 4 / 68 / इति जिचि अध्यगायि / अधीयाय, अधीयतुः / अनुस्वारेच्चान्नेट , अध्येता, अध्येतुम् / "सनीङश्च" 4 / 4 / 25 / इति गमुः, अधिजिगमिषति / " णावज्ञाने गमुः" 4 / 4 / 24 / अधिगमयति / क्त्वि अधीत्य / कित्करणम् "इको वा" 4 / 3 / 16 / इत्यादौ विशेषणार्थ गणज्ञापनार्थ च / इङिको अधिना एवं प्रयुज्यते / 17 इंण्क् गतौ'। णित्त्वं " इणः" 21151 इत्यादौ विशेषणार्थम् / एति / " उपसर्गस्यानिणे०". 122 / 19 / इत्यत्र इणो वर्जनाद् उपसर्गावर्णस्य लुगभावे उपैति, परैति / “ह्निणो० " 4 / 3 / 15 / इति यत्वे यन्ति, यन्तु / " इणिकोर्गाः" 4 / 4 / 23 / इति गाऽऽदेशे " पिवैति०" 4 / 3 / 66 / इति सिज्लुपि च अगात् / “सिज्विदो०" 4 / 2 / 92 / इति अनः पुसि " इडेत्०" 4 / 3 / 94 / इति आतो लुकि च अगुः / “योऽनेकस्वर०" 2 / 156 इति यत्वापवादे, " इणः " 21151 इति इयादेशे ईयतुः, ईयुः / “आशिषीणः" 4 / 3 / 107 इति हस्वे समियात् / " णावज्ञाने गमुः" 4 / 4 / 24 गमयति ग्रामम् / ज्ञाने तु शब्दः अर्थ प्रत्याययति / " सनीङश्च" 4 / 4 / 25 जिगमिषति ग्रामम् / ज्ञाने तु अर्थान् प्रतीषिषति / अनुस्वारेच्चान्नेट , एता, एतुम् / क्ये " दीर्घश्च्चयङ०" 4 / 3 / 108 इति दीघे ईयते / थवि " सृजिद शि०" 4 / 4 / 78 इति वेटि इयेथ इययिथ / "ग" 5 / 1 / 40 इति यापवादे क्यपि इत्यः / "तन्व्यधी०" 5 / 1164 इति णे अत्यायः, प्रत्यायः / लिहायचि अयः, समयः, प्रत्ययः / “गत्यर्था" 5 / 1111 इति वा कर्तरि क्ते मार्गमतीतः / " वेयिवद०" 5 / 2 / 3 इति निपातनाद् भूतमात्र क्वसौ नित्यत्वाद् द्वित्वात् प्रागेव " घसेकस्वरा०" 4482 इति इटि ईयिवान् , समीयिवान् , उपेयिवान् / “जीणदृक्षि०" 5 / 2 / 72 इति इनि अत्ययनशील: अत्ययी / “सृजीण" 5 / 277 इति वरपि इत्वरः, 1. मातुर इति मु० // 2. अयुः इति मु० //