________________ 15 ] धातुपारायणे अदादयः (2) 165 के राका पूर्णिमा / " राशदि०" ( उ० 696 ) इति त्रौ रात्रिः / “राते:" (उ० 866) राः धनम् // ___ 12 दांव लवने' / वकारः “अबौदाधौदा" 3 / 3 / 5 इति विशेषणार्थः / दाति क्षेत्रम् , दायन्ते व्रीहयः / अत्र “अबौ० " 335 इति अत्र वितो वर्जनाद् दासंज्ञाया अभावे " ईय॑ञ्जने० " 4 / 3 / 97 इति ईनं भवति / अनुस्वारेवान्नेट् , दाता, दातुम् / " नीदाव० " 5 / 2 / 88 इति करणे त्रुटि दात्रम् // ' 13 ख्यांक प्रथने' / प्रकथने इत्यन्ये / ख्याति, आचख्यौ / “शास्त्यसूवक्ति० " 3 / 4 / 60 इत्यङि आख्यत् / “समः ख्यः" 5 / 1177 इति डे अश्वसंख्य: / " दश्चाङः " 5 / 1 / 78 इति डे च्याख्यः / " व्यञ्जनान्तस्था." 4 / 2 / 71 इत्यत्र ख्यावर्जनात् तस्य नत्वाभावे ख्यातः / सखा इति तु "सनेडखिः" ( उ० 625 ) इति डखौ / अनुस्वारेच्चान्नेट् , आख्याता आख्यातुम् // 14 प्रांक पूरणे' / प्राति, पप्रौ। अनुस्वारेच्चान्नेट् , प्राता। क्ते " व्यअनान्तस्था०" 4 / 2 / 71 इति तस्य नत्वे प्राणः / “आतो डो०" 5176 इति डे गोष्पदप्रं वृष्टो देवः / एकेन गोष्पदप्रेण // 15 मांक माने' / मानं वर्तनम् / माति पात्रे / " नेमादा०" 2 / 3 / 79 / इत्यत्र उपलक्षितस्य मो ग्रहणान्नेर्णत्वाभावे प्रनिमाति / अत्राऽपीच्छन्त्येके प्रणिमाति / क्ये " ईय॑अने" 4 / 3 / 97 // इति ईत्वे मीयते / मातेः ईत्वं नेच्छन्त्येके; तन्मते मायते, ममौ / अनुस्वारेचान्नेट् , माता, मातुम् / सनि “मिमी०" 4 / 1 / 20 / इति स्वरस्येति मित्सति ये तु अस्य इवं नेच्छन्ति तन्मते मिमासति / "दोसोमा०" 4 / 4 / 11 / इति इति मितः, मितवान् / मातेः इत्वं नेच्छन्त्येके, तन्मते मातः, मातवान् / शतरि " अवर्णादश्नो० " 2 / 1 / 115 / इति वाऽन्तादेशे माती मान्ती स्त्री कुले वा / उणादौ "स्थाछा." ( उ० 357 ) इति ये माया / " हुयामा०" ( उ० 451) इति त्रे मात्रा / " शामा०" ( उ० 462 ) इति ले माला / " मावावद्य०" (उ० 564 ) इति से मास: / मेरुः इति तु. 'मीनातेः “चिनीपी०" ( उ० 806) इति रौ / चन्द्रमा इत्यपि चन्दो रमसि / [ चन्दो रमस् (उ० 986) ] // 1. " मीनातेर्मीयतेर्वा चिनीपी०" इति प० प्रतौ / उणादि विवरणे तु मीच् हिंसायाम् इत्यस्माद धातो: मेरुः शब्दः साधित: //