________________ उपक्रतिस्मृतिः विविधभाषकोविदैःभारतीयदर्शनशास्त्रविशारदैः जिनागमतत्वकुशलैः पूज्यमुनिराजश्री भुवनविजयजीमहाराजान्तेवासिभिः मुनिराजश्री जम्बूविजयमहाराजैः भूयो भूयो मार्गदर्शनप्रदानेन बहुसाहाय्यं कृतम् / अनेकशः परामर्शदानेन च समये समये मम क्षतयः परिमार्जिताः, अतः ते विशेषत उपकारिणः / - पूज्य मुनिराजश्री यशोविजयमहाराजानां प्रेरणया साहाय्येनैव च प्रन्थोऽयं सम्पादितो मया / न केवलं तैः पाठान्तरग्रहणे मुद्रणाईप्रतिलिपिलेखने प्रूफशोधन एव च साहाय्यं कृतम् , अपि तु सर्वप्रकारेण मम योगक्षेमरक्षा कृता / किश्च, ते मम गृहस्थावस्थायां ज्येष्ठभ्रातरः अधुना व विविधशास्त्राध्यापनेन विद्यागुरवः। तेषामेव असीमवात्सल्यात् सर्वथा साहाय्याश्चैवेदं ग्रन्थरत्नं निश्चिन्तमनसा मया सम्पादितम् / वस्तुतः अस्य समयसम्पादनसौष्ठवस्य यशः तेषामेव / परिशिष्टानां प्रूफशोधने बालमुनिमहायशविजयेनाऽपि साहाय्यं कृतम् / परमकृपालुपरमात्मनः परमोपकारीणां परमपूज्यानां प्रातःस्मरणीयानाम् आचार्यदेवेश-श्रीमजियभद्रसूरीश्वराणां च परमकृपया साहाय्यांचव इदं कार्य सम्पन्न मिति तेषां चरणेषु अनन्तशः प्रणिपातं विधाय प्रभुश्रीयुगादिदेवस्य ऋषभजिनेशस्य जन्म-दीक्षाकल्याणक पवित्रिते अथ दिने प्रणिपत्य युगादीशं महायाम्येतेन कुसुमेन / विक्रम संवत 2035 ) फल्गुनकृष्णा अष्टमी इत्यावेदयति श्री ऋषभदेव जन्म-दीक्षा- कल्याणकदिनम् पूज्यपादाचार्यदेवेशश्रीमद्विजयभद्रसूरीश्वरशिष्य... जुनाडीसा पूज्यपादमुनिराजश्रीजिनचन्द्रविजयान्तेवासी ..... (जिल्ला बनासकांठा) मुनि मुनिचन्द्रविजयः उत्तरगुजरात