________________ ग्रन्थकृता “गतिविति" प्रतीक एव उपन्यस्तः, ईदृशेषु स्थलेषु - "गतिक्व०" 331142 - इति - इति निर्देशोऽस्माभिरस्मिन् सम्पादने विहितः / इत्येवमन्यत्रापि सन्धित्यागेन सूत्राणां प्रतीकानां निर्देशाः सम्प्रति उच्चार्यमाणसूत्राणां सौकर्याथै तत्र तत्रास्माभिर्विहिता इति ध्येयम् / इह पारायणे सर्वधातूनां विषरणे यदि तत्समानो धातुः अन्यस्मिन् गणे वर्तते तदा तस्य निर्देशः आचार्यविवरणस्यान्ते कृतः / अस्माभिः तेषाम् अन्यगणीयधातूनां गणधातुसूचकाङ्कानि ईदृशे [ ] चतुष्कोणके दत्तानि / यत्र च द्वयोः त्रयाणां वा धातूनाम् एक एव अर्थ., तत्र धातुपाठे अन्तिमधातोरेष गणसूचकानुबन्धो दृश्यते, अथ च तेषां पृथक् पृथक् पारायणे प्रारब्धे हस्तलिखित प्रतिषु क्वचिद् अनुबन्धो दृश्यते क्वचिच न, अस्माभिरेषु स्थलेषु सर्वत्रानुबन्धो न्यस्तः / यथापृ. 172, पं. 9 श्वसक् / ___ चुरादौ पूर्षमुद्रितसंस्करणे 263, 264 धातवोः पश्चात् पुनरपि 263 A, 264 A इति अङ्के दत्ते, अस्माभिस्तु अनुक्रमेण सर्वेषामषं दत्तम् , अतः पूर्वसंस्करणे चुरादौ 413 धातवः अस्मदीये तु 415 धातवः / क्वचित् क्वचित् अत्रत्यः सिद्धहेमसूत्रपाठः प्रचलितसिद्ध हेम०पाठा भिन्नो दृश्यते / अस्माभिरेताशस्थले प्रचलितपाठः स्वीकृतः, अत्रत्यपाठस्तु टिप्पण्यां निर्दिष्टः / यथापृ. 146, टि. 1, 2 / / ___ अत्रत्यपाठस्य पतविषयसङ्गतैः अन्यग्रन्थैः सह यत्र यत्र शब्दशः अर्थशो वा साम्यं दृष्टं, तत्र तत्र तुलनार्थ टिप्पण्यां निर्देशः कृतः / यथा पृ. 152, टि. 1 / पृ. 338, टि. 1 / पृ. 340, टि 1...... / . क्वचिद् उणादिसूत्रस्य धातुपारायणीयः पाठः उणादिसूत्रप्रकरणाद् भिन्नो दृश्यते, तद्भिन्नताऽपि टिप्पण्यां दर्शिता। यथा-पृ. 184, टि.२ / पृ. 203, टि. 2 / पृ. 220, टि. 1 / क्वचित् अमुकशब्दो येन उणादिसणेह साधितः, स शब्दः तत्सूत्र विवरणे न साक्षाद् उपलभ्यते, आदिशब्देन प्रानो भवति, अथ च स एष शब्दः अन्योणादिसूत्रविवरणे साक्षाल्लभ्यते, अस्माभिः टिप्पण्यां क्वचित्रिदर्शितमेतद् / यथा पृ. 144 / टि. 1 उपसंहारः घुफाचवलोकने अनवधानादिना शीतकाक्षरभङ्गाद वा जाता अशुद्धयः शुद्धिपत्रके दर्शिताः / अतः शुद्धिपत्रकमनुसन्धायैव ग्रथोऽध्येतव्यो विद्भिः। अन्या अपि याः काश्चन स्खलना अत्र दृष्टिपथ-मषतरेयस्ताः सर्वा अपिः संशोध्य सफलयन्तु अस्माकं परिश्रम प्रन्थपठन-पाठन-पालोचनेन इति सप्रश्रयम् अभ्यर्थयामहे /