________________ 162 आचार्यश्रीहेमचन्द्रविरचिते [ धा० 1 " अदेन्ध च वा" ( उ० 963) इत्यसि अन्धः कूरम् / पक्षे अदः असौ / अचा इति तु " अतेध च" ( उ० 909) इति क्वनिपि अततेः / अत्रुः इत्यपि " जनिहनिशधर्तेस्त च" (उ० 809) इति रुप्रत्यये अर्तेः / क्षीरमित्यपि “घसिवशि०" ( उ० 419 ) इति किति इरे घसतेः // अथाऽऽदन्ताश्चतुर्दशाऽनिटश्च // '2 प्सांक्' / साति / " नेमादा०" 2 / 3 / 79 इति नेर्णत्वे प्रणिप्साति / पप्सौ / अनुस्वारेवान्नेट् , साता, प्सातुम् / “य एचातः" 5 / 1 / 28 इति ये प्सेयम् / " उपसर्गादातो." 5 / 1156 इति डे प्रप्सः / " तन्व्यधी०" 5 / 1164 इति णे प्सायः / उणादौ "श्वन्मातरिश्वन्" (उ० 902) इत्यनि निपातनात् विश्वप्सा अग्निः, कालश्च // '3 भांक दीप्तौ' / भाति, बभौ / अनुस्वारेच्चान्नेट , . भाता, भातुम् / अनटि "न ख्यापूग०" 2 // 3 // 90 इति प्रतिषेधात् " स्वरात्" 2 / 3 / 85 इति "णे" 2 / 3 / 88 इति च णत्वाभावे प्रभानम् , प्रभापना / शतरि ड्याम् " अवर्णादश्नो." 2111115 इति वा 'अन्त' इत्यादेशे भाती भान्ती स्त्री / क्त्यपवादे " उपसर्गादातः" 5 / 3 / 110 इत्यङि प्रभा, विभा / " मृगयेच्छा." 5 / 3 / 101 इति निपातनादङि भा / भाः, भासौ इति तु भासेः क्विपि / उणादौ "दामाभ्यां नुः" ( उ० 786 ) भानु: / " भातेर्डवतुः" (उ० 886) भवान् / स्त्रियामुदिचात् ड्याम् भवती // '4 यांक प्रापणे' / याति / “नेमादा० " 2 / 3 / 79 इति नेणत्वे प्रणियाति / ययौ / " वा द्विषा०" 4 / 2 / 91 इति शिदनो वा पुसि "इडेत्" 4 / 3 / 94 इति आल्लुकि अयुः / पक्षे अयान् / " यमिरमि०" 4 / 4 / 86 इति इटि सेऽन्ते च अयासीत् , अयासिष्टाम् / " अवर्णादश्नो० " 2 / 1 / 115 इति वाऽन्तादेशे याती यान्ती स्त्री कुले वा / अनुस्वारेचात् नेट् , याता, यातुम् / " यायावरः" 5 / 2 / 82 इति निपातनाद् यङन्ताद् वरे यायायनशीलो यायावरः / " गत्यर्था" 5 / 1 / 11 इति वा कर्तरि क्ते संयातः, उपयातः,. वियातः / “अजातेः शीले" 5 / 11154 इति णिनि प्रयायी / गम्यादित्वात् वय॑ति साधुः / “णिन् चावश्यका०" 5 / 4 / 36 इति णिनि यायी / उणादौ "हुयामा०" (उ० 451) 1. अर्जुः क्षुव्रजन्तुः [उ. वि.] //