________________ अथ अदादयः (2) '1 अदं 2 प्सांक् भक्षणे'। इहाविकरणेषु वर्णक्रमेण धातुषु पठितेषु पूर्वाचार्यप्रसिद्धथनुसरणेनाऽदेरादावुपन्यासः / कित्करणमदादिज्ञापनार्थ सर्वत्र ज्ञेयम् / "शेषात्परस्मै" 3 / 3 / 100 इति परस्मैपदे " कर्तर्यनयः // 32471 इत्यदादि वर्जनाच्छवभावे च अत्ति / शतरि अदन् , " ऋदुदितः" 1 / 470 इति घुटि नकारः / अदती / “क्रियाव्यतिहारे०" 3 / 3 / 23 इत्यात्मनेपदे व्यत्यत्ते / "घस्ल. सन" 4 / 4 / 17 इति घस्लादेशे जिघत्सति / लुदित्वादङि अघसत् / " परोक्षायां नवा" 4 / 4 / 18 जघास, जक्षतुः, जक्षुः, अत्र " गमहन० " 4 / 2 / 44 इत्युपान्त्यलुकि, " अघोषे०" 11350 इति घस्य कत्वे, “नाम्यन्तस्था." 2 / 3 / 15 इति षत्वम् / थवि " स्क्रसृवृ०" 4 / 4 / 81 इति इटि जघसिथ / पक्षे आद, आदतुः, आदुः / थवि “सृजिदृशि०" 4 / 4 / 78 इति विकल्पापवादे "ऋवृव्येऽद० " 4 / 4 / 80 इति इटि आदिथ / “अदश्चाट् " 4490 इति दिस्योरादिग्ट् , आदत् , आदः / अनुस्वारेवान्नेट् , अत्ता, अत्स्यति / णौ "गतिबोधा०" 2 / 2 / 5 इत्यत्र अदेवर्जनादणिकर्तुः कर्मत्वाभावे, आदयते पिण्डी चैत्रण / अत्र “चल्याहारार्थे० " 3 / 3 / 108 इति फलवकर्तर्यपि परस्मैपदापवादः, " परिमुहायमा०" 3 / 3 / 94 इति आत्मनेपदम् / “यपि चादो० " 4 / 4 / 16 इति जग्धादेशे क्त्वि जग्या प्रजग्ध्य गतः / क्तौ जग्धिः / " अद्यर्थाचा." 5 / 1 / 12 इति वाऽऽधारे क्ते इदमेषां जग्धम् / पक्षे कर्मणि ते जग्धमन्नम् / भावे जग्धमनेन / अन्नमिति तु “अदोऽनन्नात् " 5 / 1 / 150 इति निर्देशादने " प्याधा०" (उ० 258..) इति ने रूपम् / अचि प्रघसः / “अदोऽनन्नात् " 5 / 1 / 150 इति क्विपि आमात् / कर्मणोऽणि अन्नादः / “क्रव्यात्क्रव्यादावामपक्वादो" 5 / 1 / 151 ऋव्यात् आममांसादी, क्रव्यादः पक्वमांसादी / “सृघस्यदो." 5 / 2 / 73 इति मरकि अदनशीलः अद्मरः / “भूश्रयदोऽल्" 5 / 3 / 23 विघसः / उपसर्गाभावे धनि घासः / " न्यादो नवा" 5 / 3 / 24 न्यादः निघसः, नन्द्यादिन्वादने काकादनः / गौगदित्वाद् ङ्याम् काकादनी / तत्रैव पाठात् गवादनः / उणादौ " तङ्किवङ्कय० " ( उ० 692 ) इति रिः, अद्रिः / " राशदि०" (उ० 696) इति त्रि: अन्त्रिः / “अदेखिन्" ( उ० 929) अत्री ऋषिः, अत्रिणौ /