________________ 160 आचार्यश्रीहेमचन्द्रविरचिते [ धा० 1054 ., अथ रान्तः सेट् च // "1054 ज्वर रोगे' / ज्वरति / णो हुस्वे स्वरयति / जिणम्परे तु वा दीर्षे अज्वारि, अज्वरि, ज्वारंज्वारम् , ज्वरंज्वरम् / “रुजार्थस्या०". 2 / 2 / 13 इत्यत्र ज्वरेवर्जनाद् वा कर्मत्वाभावे द्वितीया एव, न तु षष्ठी; चौरं ज्वरयति ज्वरः / यङि जाज्वर्यते / यहलुपि जाज्वरीति, जाजूति / क्ते ज्वरितः / विपि " मव्यवि०" 4 / 1 / 109 इति वस्योटि सुजूः / क्तौ जूतिः / " समः पृचैप. " '5 / 2 / 56 इति घिनणि संज्वरणशीलः संज्वारी / उणादौ " कावावी." (उ० 634 ) इति णौ जूर्णिः ज्वरः // .. अथ लान्ताश्चत्वारः सेटश्च // '1055 चल कम्पने' / चलति / णौ हस्वे चलयति शाखाम् / कम्पनादन्यत्र चालयति सूत्रं पर्यनुयुङक्ते / चालयति शीलं हरतीत्यर्थः / ज्वलादौ पठितोऽप्ययं घटादिकार्यार्थमिह पठ्यते // 1056 इवल 1057 ह्मल चलने' / ह्वलति, ह्वलिता / णौ ह्रस्वे विह्वलयति, प्रवलयति / अचि विहवलः // '1057 ह्मल' / ह्मलति, ललिता / णौ हस्वे प्रह्मलयति / “ज्वलह्वल०" 4 / 2 / 32 इत्यनुपसर्गस्य वा ह्रस्वे हवलयति, इवालयति, मलयति, झालयति // '1058 ज्वल दीप्तौ च' / चकारात् चलने / प्रज्वलयति, संज्यलयति / " ज्वलह्वल." 4 / 2 / 32 इत्यनुपसर्गस्य वा हस्वे ज्वलयति, ज्वालयति / ज्वलादौ पठितोऽप्ययं घटादिकार्यार्थमिहाधीतः / केचित्तु दलि-वलि-स्खलि-क्षपि-त्रपीणामपि घटादित्वमिच्छन्ति, तन्मते दलयति, वलयति, स्खलयति, क्षपयति, पयति इत्यपि भवति // .. इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञशब्दानुशासनधातुपारायणे औत्सर्गिकशवि' करणो निरनुबन्धो भूवादिगणः सम्पूर्णः //