________________ 1053 ] धातुपारायणे भ्वादय (1) 159 इति तु यौजादिकस्य घन्ताद् वा णिचि “जासनाटकाथ०" 222114 इति निर्देशाद् वा हस्वाभाषे // 1046 क्लथ' / क्लथति, क्लथयति // __ अथ दान्तौ सेटौ च // 1047 छद ऊर्जने' / ऊर्जनं प्राणनं बलं च / छदण संवरणे इति पठिष्यमाणोऽपि ऊर्जने घटादिकार्यार्थमिह पठितः / छदयति अग्निः स्वार्थ णिच, छादयन्तं प्रयुङक्ते इति णिग् वा / ऊर्जनादन्यत्र छादयति गृहं तृणैः // '1048 मदै हर्षग्लपनयोः' / मदच हर्षे इति अनयोर्थयोः घटादिकार्याथमिह पठितः / मदयति गुरुं शिष्यः / मदयति सुरा चैत्रम् , हर्षयतीत्यर्थः / 'मदयति शत्रुम् , विमदयति शत्रुम् , ग्लपयतीत्यर्थः / अन्यत्रानेकार्थत्वाद् उन्मादयति, प्रमादयति // अथ नान्ताः पञ्च सेटश्च // 1049 टन 1050 स्तन 1051 ध्वन शब्दे' / “पः सो०" 2398 इति सत्वे स्तनति, स्तनयति / षोपदेशत्वात् " नाम्यन्तस्था० " 2 / 3 / 15 इति षत्वे तिष्टनयिषति // '1050 स्तन' / स्तनति, स्तनयति / अषोपदेशत्वात् षत्वाभावे तिस्तन'यिषति // '1051 ध्वन' / ध्वनति, ध्वनयति / दचान, ध्वनयनाशाः / अन्त्यौ पूर्वपठितौ अपि अर्थविशेषे घटादिकार्यार्थमिहाधीतौ / अनेकार्थत्वाद् अर्थान्तरे, स्तानयति / शब्दे अपि स्तानयति इत्यन्ये, ध्वानयति // . 1052 स्वन अवतंसने ' / स्वनति / णौ हूस्वे स्वनयति, अवतंसयतीत्यर्थः / "जभ्रम" 4 / 1 / 26 इति वा एत्वे द्वित्वाभावे च स्वेनतुः, सस्वनतुः, स्वेनुः, सस्वनुः / पूर्वपठितस्याप्यस्यार्थविशेषे घटादिकार्यार्थमिह पाठः / शब्दे तु स्वानयति // __1053 चन हिंसायाम् ' / चनति / णौ हूस्वे चनयति / शब्दे तु * चानयति / पूर्वपठितोऽप्ययम् अर्थविशेष घटादिकार्यार्थमिहाधीतः // 1 अन्यत्र म इति मु० //