________________ आचार्यश्रीहेमचन्द्रविरचिते [धा० 1046 च जिह्वाविषया क्रिया उन्मन्थनं च इति समाहारः / लडयति जिह्वाम् / ललयति दधि / लडण उपसेवायाम् [9 / 55 ], लाडयति / लड विलासे [ 11254 ], इत्यस्यैव अर्थविशेष घटादिकार्यार्थमिह पाठः // अथ णान्ताः षट् सेटश्च // ___ 1037 फण 1038 कण 1039 रण गतौ' / फणति / णौ घटादित्वाद् इस्वे फणयति / “जभ्रम०" 4 / 1 / 26 इति वा एत्वे द्वित्वाभावे च फेणतुः, पफणतुः, फेणुः, पफणुः / थवि " स्क्रसृवृ०" 4481 इति इटि फेणिथ, पफणिथ / -- क्षुब्धविरिब्ध०" 4 / 4 / 70 इति क्ते निपातनाद् अनायासे 'फाण्टाभिः अद्भिः आचामेत् इति कदुष्णाभिः इति अनायासो गम्यते / आयासे तु फणितम् / / 1038 कण' / कणति / णो घटादित्वाद् इस्वे कणयति / णौ अचि कणयतीति कणः / “कणेमनस तृप्तौ" 3116 इति सूत्रनिर्देशाद् एत्वे कणेहत्य पयः पिबति, श्रद्धाघातं कृत्वा इत्यर्थः / तृप्तेरन्यत्र गतित्वाभावे कणे हत्वा मूषिकां गतः // '1039 रण' / रणति / णौ घटादित्वाद् हस्वे रणयति / गतेरन्यत्र फाणयति घटं निःस्नेहयतीत्यर्थः; काणयति राणयति शब्दयतीत्यर्थः / कणिरणी पूर्वाधीतौ घटादिकार्यार्थमिह पठितौ // "1040 चण हिंसादानयोश्च' / हिंसायां दाने चकाराद् गतौ / चणति / णौ घटादित्वाद् इस्वे चणयति / शब्दे तु चाणयति / उणादौ “दृकन" ( उ० 27) इत्यके चणकः // '1041 शण 1042 श्रण दाने' / शणति / घटादित्वाद् हस्ते शणयति / घनि शाणः // '1042 श्रण' / श्रणति / णौ हस्वे श्रणयति / दानादन्यत्र शाणयति, श्राणयति / आणण दाने [ 9 / 76 ] विश्राणयति // / अथ थान्ताश्चत्वारः सेटश्च // '1043 स्नेथ 1044 क्नथ 1045 क्रथ 1046 क्लथ हिंसार्थाः' / स्नथति, स्नथयति / क्नथति, क्नथयति / क्रथति, ऋथयति / चौरस्योत्क्राथयति 1. फाण्टा भिरिभरा इति मु• !!