________________ 1018 ] धातुपारायणे भ्वादयः (1) अथ क्षान्तः // 1012 दक्षि हिंसागत्योः' / दक्षते, ददक्षे, दक्षिता / "क्तेटो. " 5 / 3 / 106 इत्यः, दक्षा / दक्षि शैये च इति अस्यैवार्थभेदाद् घटादिकार्याथं पुनः पाठः / णौ दक्षयति / त्रिणम्परे तु वा दीर्घः, अदाक्षि, अदक्षि, दाक्षंदाक्षम् , दक्षंदक्षम् / / अथ परस्मैपदिनः // . 1013 श्रां पाके' / 8 पाके, श्रीक् पाके इत्यस्य चेह घटादिकार्याथ पाठः / श्रायति श्राति वा कश्चित् तमन्यः प्रयुङक्ते, अपयति / श्रायति श्राति या हविः स्वयमेव, तदन्येन प्रायुज्यते इति णौ घटादित्वाद् हुस्वे क्ते “श्रपेः प्रयोकुवैक्ये " 4 / 1 / 101 इति शतादेशे शृतं हविः क्षीरं वा चैत्रेण / अन्यत्र श्रापयति धर्मः स्वेदयति इत्यर्थः / अत एव ज्ञापकादनेकार्थत्वं धातूनां सिद्धम् // अथ ऋदन्तः // - 1014 स्मृ आध्याने ' / आध्यानम् उक्तं वा स्मरति / घटादित्वाद् हस्वे स्मरयति / आध्यानादन्यत्र चित्तं स्मारयति, विस्मारयति / अन्यत्रोक्तस्यार्थविशेषे घटादिकार्यार्थमिह पाठः // अथ ऋदन्तौ // '1015 6 भये' / दरति / " युवर्ण० " 5 / 3 / 28 इन्यलि दरः / णौ घटादित्वाद् ह्रस्वे दरयति बलम् / भयादन्यत्र काष्ठं दारयति / उणादौ " शूढ०" ( उ० 894 ) इत्यदि दरनाम्ना जनपदः / दृश् विदारणे [ 8 / 28 ], दृणाति, दारयति काष्ठम् / अस्यैव घटादिकार्यार्थमिह पाठ इत्यन्ये / दीर्यते इति कमकर्तरि दिवादौ अपि अयम् अन्यः पठ्यते, तन्मते कर्तर्यपि दीयते // '1016 नये' / क्रयादेः घटादिकार्यार्थ विरलोऽस्य पाठः / नृगन्तं प्रयुङ्क्ते, नरयति // ... अथ कान्ताश्चत्वारः सेटश्च // __1017 ष्टक 1018 स्तक प्रतीघाते' / “पः सो०" 2 / 3 / 98 इति सत्वे स्तकति / णौ घटादित्वाद् इस्वे सनि षोपदेशत्वात् षत्वे तिष्टकयिषति // . 1018 स्तक' / स्तकति / णौ घटादित्वाद् इस्वे पोपदेशत्वात् पत्वा___ भावे तिस्तकविपति //