________________ आचार्यश्रीहेमचन्द्रविरचिते [धा० 1019 '1019 चक तृप्तौ च / चकारात् प्रतीपाते / चकति / णौ घटादित्वाद् हस्वे चकयति / क्ते चकितः / उणादौ "कठिचकि० " ( उ० 433) इत्योरे चकोरः / चकि तृप्तिप्रतीघातयोः [ 11621 ], चकते // - 1020 अक कुटिलायां गतौ ' / अकति / गौ घटादित्वाद् इस्वे अकयति / अनोकह इति तु अनिते: 'ओकहे // अथ खान्तः // '1021 कखे हसने' / कखति / एदित्वाद् “व्यञ्जनादे०" 4347 इति वा वृद्धः "न विजागृ०" 4 / 3 / 49 इति प्रतिषेधे अकखीत् / णौ घटादित्वाद् हुस्वे कखयति / किखिः इति तु " कोर्डिखिः " ( उ० 626) इति कौतेः // अथ गान्ता नव सेटश्च // '1022 अग अकवत् ' / अक कुटिलायां गतौ पठितः, अयमपि तदर्थों लाघवार्थ तथा निर्दिश्यते, अगति / णौ घटादित्वाद् इस्वे अगयति / उणादौ " भीवृधि०" ( उ० 387 ) इति रे अग्रम् / “वीयुसुवा०" ( उ० 677) इति नौ अग्निः // 1023 रगे शङ्कायाम् ' / रगति / एदिचाद् " व्यञ्जनादे." 4347 इति वा वृद्धः, "न विजागृ०" 4 / 3 / 49 इति प्रतिषेधे अरगीत् / णौ घटादित्वाद् हूस्वे रगयति // 1024 लगे सगे' / लगति / एदित्वाद् " व्यअनादे०" 4 / 3147 इति वा वृद्धः, " न श्विजागृ०" 4 / 3 / 49 इति प्रतिषेधे अलगीत् / णौ घटादित्वाद् हस्वे लगयति / " क्षुब्धविरिब्ध" 4 / 4 70 इति ते निपातनाद् लग्नः सक्तः / लगितः अन्यः // 1025 हगे 1026 हगे 1027 पगे 1028 सगे 1029 ष्ठगे 1030 स्थगे संवरणे' / संवरणम् आच्छादनम् / हगति / एदिवाद् " व्यअनादे." 4 / 3 / 47 इति वा वृद्धेः " न विजागृ." 4 / 3 / 49 इति प्रतिषेधे अहू गीत / णौ घटादित्वाद् इस्वे इगयति // '1026 हगे' / हगति, अहगीत् , ह्रगयति // 1 " अनेरोकहः” ( उ० 595) इत्यनेन //