________________ आचार्यश्रीहेमचन्द्रविरचिते [ 1005 स्खदिष् खदने' / खदनं विदारणम् / स्खदते, चस्खदे, स्खदिता / पिवादङि स्खदा / णौ घटादित्वाद् ह्रस्वे स्वदयति // ___ '1006 कदुङ् 1007 ऋदुङ् 1008 क्लदुङ् वैक्लव्ये ' / विक्लवः कातरः, तस्य भावः कर्म वा वैक्लव्यम् / 'वैकल्ये इति चन्द्रः / उदित्वाने कन्दते, क्रन्दते, क्लन्दते / "क्तटो०" 5 / 3 / 106 इत्यः कन्दा, क्रन्दा, क्लन्दा / णौ कन्दयति, त्रिणम्परे तु वा दीर्घः, अकान्दि, अकन्दि, कान्दंकान्दम् , कन्दकन्दम् / एवं शेषयोरपि / क्रन्देः नन्द्याद्यने संक्रन्दनः / " इडितो." 5 / 2 / 44 इत्यने आक्रन्दनः / घनि आक्रन्दः / त्रयोऽप्येतेऽनुदितः पितश्च इति नन्दी; कदते, क्रदते, क्लदते, कदा, ऋदा, क्लदा / कदु-क्रदु-क्लदु रोदनाह्वानयोः [11315-316317 ], कन्दति, क्रन्दति, क्लन्दति // अथ पान्तः // '1009 क्रपि कृपायाम् ' / क्रपते, चक्रपे, क्रपिता / णो घटादित्वाद् हस्वे क्रपयति / " मृगयेच्छा० " 5 / 3 / 101 इति निपातनाद् अङि कृपा / कृपण इति तु " कृपृ० " ( उ० 188 ) इति कित्यणे कृपेः // अथ रान्तः // 1010 जित्वरिष संभ्रमे / संभ्रमः अत्र आशुकारिता / त्वरते, तत्वरे, त्वरिता / यङि तात्वर्यते / यङलुपि तात्वरीति / " मव्यवि०" 41109 इति वस्य उपान्त्येन सहोटि तातूति / षिवादडि त्वरा / णौ घटादित्वाद् इस्वे स्वरयति / उ सन्वद्भावापवादे " स्मृदृत्वर०" 4 / 1 / 65 इति पूर्वस्याऽत्वे अतत्वरत् / जित्त्वात् " ज्ञानेच्छा०" 5 / 2 / 92 इति सति ते " श्वसजप०" 4 / 4 / 75 इति वा नेटि त्वरितः, पक्षे " मव्यवि०" 41109 इति वस्योपान्त्यत्वेन सहोटि तूर्णः / तूर्णिः इति तु तूरेः " कावावी." (उ० 634) इति णौ // अथ षान्तः // 1011 प्रसिष् विस्तारे' / प्रसवे इत्यन्ये / प्रसते, पप्रसे, प्रसिता / पिचादङि प्रसा / णो घटादित्वाद् इस्वे प्रसयति // 1 मुद्रिते चान्द्रधातुपाठे तु वैक्लव्ये इति पाठः // 2 " कृपगृ" इति मु०॥