________________ 999 ] धातुपारायणे भ्वादयः (1) " गतिबोधा० " 2 / 2 / 5 इत्यणिक्कर्तुः कर्मत्वम् / अनुस्वारेचान्नेट् , निवत्स्यति वस्तुम् / " क्षुधवसस्तेषाम् " 4 / 4 / 43 इति इटि उपितः, उषितवान् , उषित्वा; अत्र "क्षुधक्लिश०" 4 / 3 / 31 इति क्त्वः किवाद् " यजादि० " 4 / 1179 इति ग्वृत् / " रुच्याव्यथ्य०" 5 / 1 / 6 इति कर्तरि निपातनात् तव्यणि वास्तव्यः / "वाधारे" 5 / 1 / 21 इति ध्यणि वा निपातनात् अमावस्या, अमावास्या / " अजातेः शीले" 5 / 1 / 154 इति णिनि "शयवासि०" 3 / 2 / 25 इति सप्तम्या वा लुपि ग्रामवासी, ग्रामवासी / " श्रुसद० " 5 / 2 / 1 इति भूते वा परोक्षा, अनूवास; पक्षे अन्ववात्सीत् , अन्ववसत् / " तत्र वसुक्वानी० " 5 / 2 / 2 इति क्वसौ " घसेकस्वरा० " 4 / 4 / 82 इति इटि अनूषितवान् गुरुं शिष्यः / “संप्राद् वसात् " 5 / 2 / 61 इति घिनणि संवसनशीलः संवासी / एवं प्रवासी / उणादौ " तृजि० " (उ० 221) इत्यन्ते वसन्तः / " उपसर्गाद् वस:" (उ० 233) इति अथे आवसथः / भेषजादिट्यणि आवसथ्यम् / " प्याधो० " ( उ० 258 ) इति ने वस्नं वस्त्रम् , मूल्यं च / " ऋज्यजि० " (उ० 388) इति किति रे उस्रः रश्मिः, बाहुलकात् पत्वाभावः / णौ "ऋच्छिचटि० " ( उ० 397) इति अरे वासरः / “मीज्यजि०" (उ० 439) इति सरे वत्सरः / " कृशकुटि०" ( उ० 619) इति वा णिदिः, वासिः / ड्याम् वासी तक्षमाण्डम् / वसिः शय्या। "प्लुज्ञा० " ( उ० 646) इति तौ वस्तिः मेट्रोवं वस्त्रदशाः गुदं स्नेहनोप करणं च / " खल्यमि० " (उ० 653) इति अतौ वसतिः / “वस्यतिभ्यामातिः" (उ० 662 ) वसातयः राष्ट्रम् / " भृमृत" ( उ० 716) इति औ वसु द्रव्यम् / "वसेर्णिद् वा" ( उ० 774 ) इति तुनि वस्तु पदार्थः / वास्तु गृहं गृहभूमिश्च / उष इति तु उषेः " मिथिरज्यु० " ( उ० 971) इति कित्यसि / वसिक् आच्छादने [ 2 / 59 ], वस्ते / वसूच स्तम्भ [ 383 ], वस्यति / उणादौ " दम्यमि० " ( उ० 200 ) इति ते वस्तः छागः, वस्तिण अर्दने इत्यस्य वाचि / : वसण स्नेहच्छेदावहरणेषु [ 9 / 194 ], वासयति // ___ "वृत् यजादिः" / वर्तिताः समापिता यजादय इत्यर्थः //