________________ 150 आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९९८आत्मनेपदे " अणिगि प्राणि." 3 / 3 / 107 इति परस्मैपदेनापोदिते " परिमुहा०" 3 / 3 / 94 इति पुनर्विहिते. वदति चैत्रः / वादयते चैत्र मैत्रः, अत्र “गतिबोधा." 2 / 2 / 5 इत्यणिकर्तुः कर्मत्वम् / फलवतोऽन्यत्र " शेषात् परस्मै" 33100 इति परस्मैपदे वादयति चैत्र मैत्रः / वदिता, वदितम् / “ऋवर्ण०" 5 / 1 / 17 इति ध्यणि वाद्यम् / “वर्योपसर्या० " 5 / 1 / 32 इति निपातनाद् ये अवद्यम् गर्यम् , अनुद्यम् अन्यत् / " नाम्नो वदः क्यप् च" 5 / 1 / 35 ब्रह्मोद्या कथा / ये ब्रह्मवद्या / "खेयमृषोद्ये" 5 / 1138 इति निपातनात् क्यपि मृषोद्यम् / अचि वदः / “चराचर०" 4 / 1 / 13 इति निपातनाद् वदावदः / लिहायचि श्लोकवदः / " प्रियवशाद् वदः" 5 / 1 / 107 इति खे प्रियंवदः, वशंवदः। "संपरिव्यनुप्राद् वदः" 5 / 2 / 58 इति घिनणि संवदनशीलः संवादी / एवं परिवादी / “वादेश्च णकः" 5 / 2 / 67 इति णौ णके परिवादनशीलः परिवादकः / " यजिजपि०" 5 / 2 / 47 इति यङन्तादके वावदकः / पनि वादः / ग्रहादित्वाद् इटि उदितिः / क्त्वि उदित्वा / “गत्यर्थ" 33118 इात गतित्वे “गतिक्व०" / 3 / 1142 इति समासे क्त्वो यपि अच्छोद्य / उणादौ " वदिसहिभ्यामान्यः" (उ० 381 ) वदान्यो दाता प्रियवाक् च / वदन्यः इति तु वदने साधुः इति साधौ ये / “भूगृ०" ( उ० 460) इति णिति इत्रे वादित्रम् आतोद्यम् / " कमिवमि०" ( उ० 618) इति णिदिः, वादिः वाग्मी / " मावावद्य०" (उ० 564) इति से वत्सः // ____ '999 वसं निवासे' / वसति / " यजादिवश०" 4 / 1 / 72 इति पूर्वस्य वृति उवास / " यजादिवचेः०" 4 / 1179 इति वृति “घस्वसः" 2 / 3 / 36 इति पत्वे ऊपतुः, ऊषु: / क्ये उष्यते / " उपान्वध्यावसः " 222221 इति आधारस्य कर्मत्वे ग्रामम् उपवसति, अनुवसति, अधिवसति, आवसति, अन्वादिसाह चर्याद् वासार्थस्यैव उपस्य ग्रहणम् ; तेन भोजननिवृत्यर्थेन उपेन योगे कर्मत्वं न 5 भवति / यद्वा नात्र वसेः उपपूर्वस्य ग्राम आधारः, किन्तु वसेः / “ग्रामे वसन् त्रिरात्रमुपवसति" इत्युपवस्य आधारस्य त्रिरात्रस्य कर्मता स्यादेव / थवि “सृजिदृशि०" 4 / 4 / 78 इति वा नेटि उवस्थ, उवसिथ / णौ "ईगितः" 3395 इति आत्मनेपदे * अणिगि प्राणि० " 3 / 3 / 107 इति परस्मैपदेनापोदिते "परिमुहा." 3 / 3 / 94 इति फलवत्कर्तरि पुनर्विहिते वसति चैत्रः, वासयते चैत्रं मैत्रः, अत्र 1. इति तु सा' इति मु० // 2. तुलना, महाभाष्य, 1448 //