________________ 998 ] धातुपारायणे भ्वादयः (1) - 149 वाह्यम् अन्यद् / ण्यन्तादचि वाहः, उदकस्य वाहः उदवाहः, अत्र “नाम्न्युत्तरपदस्य." 3 / 2 / 107 इति उदादेशः / “कूलादुद्रुजोद्वहः" 5 / 1 / 122 इति खशि कूलमुद्वहः समुद्रः / णौ करणेऽनटि वाहनम् , प्रगतानि वाहनानि यस्य सःप्रवाहणः, अत्र " पूर्वपदस्थानाम्यगः" 2 / 3 / 64 इति णत्वम् / अजा अस्मिन् उद्यन्ते इति व्यअनाद् घनि " यापो बहुलं नाम्नि" 2 / 4 / 99 इति इस्वे च अजवाहो नाम ग्रामः / " कर्तुर्जीव० " 5 / 4 / 69 इति णमि पुरुषवाहं वहति / उणादौ "बन्धिवहि०" (उ० 459) इति इत्रे वहिनं वाहनं वहनं च। “वीयुसुवागिम्यो निः" ( उ० 677) वह्निः / " वहेर्ध च" ( उ० 832) इत्यूः वधूः // ___अथ परस्मैपदिनः त्रयः // / 997 टवोश्वि गतिवृद्धयोः / श्वयति, श्वयिता / क्ये " यजादिवचेः०" 4 / 1 / 79 इति वृति शूयते / " वा परोक्षा-ङि" 4190 इति वा रवृति शुशाव, शिवाय / यङि शोशूयते, शेश्वीयते / यङ्लुपि शोशचीति, शोशोति, शेश्वयीति, शेश्वेति / णौ उसन्परे " श्वेर्वा " 431189 इति वा वृति अशशुवत् , अशिश्वयत् , शुशावयिषति, शिश्वाययिषति / "ऋदिच्छ्वि० " 3465 इति वाङि " श्वयत्यसूबच०" 4 / 3 / 103 इति श्वादेशे अश्वत् / “धेश्वेर्वा " 3 / 4 / 59 इति वा डे अशिश्वियत् , पक्षे सिचि " न विजागृ०" 4 / 3 / 49 इति वृद्धः प्रतिषेधाद् गुणे अश्वयीत् / “य एचात:" 5 / 1 / 28 इति ये श्वेयम् / ओदिचात् "सूयत्याद्यो०" 4 / 2 / 70 इति क्तयोस्तस्य नत्वे “डीयश्व्यै०" 4 / 4 / 61 इति इडभावे च शूनः, शूनवान् / विवादथुः, श्वयथुः / स्त्रियां तो शूतिः / क्त्वि श्वयित्वा, "क्त्वा" 4 / 3 / 29 इति किवाभावादन गुणः / उणादौ "श्वन्मातरिश्वन्" (उ० 902) इति अनि निपातनात् श्वा मातरिश्वा // ___ 998 वद व्यक्तायां वाचि' / वदति / "दीप्तिज्ञान० " 3 / 3 / 78 इति आत्मनेपदे वदते विद्वान् स्याद्वादे, वदन् दीप्यते इत्यर्थः / " व्यक्तवाचां सहोक्तौ" 3 / 3 / 79 संप्रवदन्ते द्विजाः / " विवादे वा" 3380 विप्रवदन्ते, विप्रवदन्ति वा मौहूर्तिकाः / " अनोः कर्मण्यसति " 3 / 3 / 81 अनुवदते कठः कालापस्य / " वदोऽपात्" 3397 इति फलवत् कर्तरि अपवदते, अन्यत्र अपवदति / " यजादिवः" 4 / 1 / 79 इति स्वृति क्ये उद्यते / “यजादिवश०" 41172 इति पूर्वस्य वृति उवाद / " स्क्रसृवृ० " 4 / 4 / 81 इति इटि उवदिथ / “वदव्रज०" 4 / 3 / 48 इति वृद्धौ अवादीत् / णौ " ईगितः” 3 / 3 / 95 इति फलवत्कर्तरि