________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा० 994" तन्व्यधी०" 5 / 1 / 64 इति णे हायः / “आतो डो०" 5 / 1176 इत्यत्र हुवावर्जनात् कर्मणोऽणि स्वर्गवायः। " हवः समाहूवयाह्वयौ द्यूतनाम्नोः" 5 / 3 / 41 इत्यलि निपातनात् समाइवयः प्राणियुतम् , आह्वयः संज्ञा / “न्यभ्युपवेश्चिोत्" 5 / 3 / 42 इत्यलि निहवः, अभिहवः, उपहवः / यङ्लुपि निजोहवः / "आङो युद्धे" 5 / 3 / 43 आहको युद्धम् , आवायः अन्यः / " आहावो निपानम् " 5 / 3 / 44 आहूयन्ते पानाय गावो यत्रेति आहावो निपानम् / " भावेऽनुपसर्गात् " 5 / 3 / 45 हवः / कर्मणि पनि हवायः / उणादौ " तीवरधीवर०" ( उ० 444) इति वरटि निपातनाद् उपवरं सन्धिः // . . अथ पान्तः // ....995 डुवपी बीजसन्ताने ' / बीजानां संतानः क्षेत्रे विस्तारणम् / वपते, वपति / "नेमादा०". 21379 इति नेणत्वे प्रणिवपते / “यजादिवश्०" 4 / 1 / 72 इति पूर्वस्य रवृति उाप, “यजादिवचे:०" 4 / 179 इति स्वृति उपे। क्ये उप्यते / यङि वावप्यते / यङ्लुपि वावपीति, वावप्ति / " आसुयु०" * 5 / 1 / 20 इति यापवादे ध्यणि वाप्यम् / अचि वप: / कर्मणोऽणि वीजवापः / अनुस्वारेच्चान्नेट , वप्ता, उप्तः, उप्तवान् / डिवचात् त्रिमकि उपत्रिमम् / घनि परिवापः / भिदादित्वाद् अङि वपा मेदः / उप्ति: अन्या / उणादौ "भापाचणि." ( उ० 296 ) इति पः, वप्पः पिता / " भीवृधि० " ( उ० 387 ) इति रे वप्रः केदारः / " कमिवमि० " ( उ० 618 ) इति णिदिः, वापि: / "रुद्यति 0" (उ० 997 ) इति उसि वपुः // . ___ अथ हान्तः // '996 वहीं प्रापणे' / वहते, वहति / " नेमादा० " 2 / 3 / 79 इति नेणत्वे प्रणिवहते / “प्रावहः " 33103 " परेमपश्च" 3 / 3 / 104 इति फलवत्कर्तयपि परस्मैपदे प्रवहति, परिवहति / " यजादिवा०" 41172 इति पूर्वस्य वृति उवाह / " यजादिवचे:०" 4 / 1179 इति वृति ऊहे, ऊहुः / क्ये उद्यते / यङि वावह्यते / यङ्लुपि वावहीति, चावोढि / अनुस्वारेचान्नेट , वोढा, ऊढः, ऊढवान् / घजि प्रवाहः / " गोचरसंचर०" 5 / 3 / 131 इति निपातनाद् घनपवादे घे वहः वृषस्कन्धः / " वा करणे" 5 / 1 / 34 इति निपातनाद् ये वयं शकटम् , 1. वप्ता तु जनकः ( अ. चि 3 / 220 ) //