________________ 147 994 ] धातुपारायणे भ्वादयः (1) सुवाः, विपि सूत् / ते "यजादि." 4 / 1179 इति वृति “दीर्घमवोन्त्यम्" 4 / 1 / 103 इत्यत्र वावर्जनात् दीर्घाभावे उतः, उतवान् / ऊयते इत्यत्र तु वृति “दीर्घश्च्वियक" 4 / 3 / 108 इति दीर्घः / क्तौ उतिः / ऊतिरिति तु ऊयैङ्क तन्तुसन्ताने [1800] इत्यस्य क्तौ / उणादौ "वेगो डि" ( उ० 628) इति इचौ वीचिः / "सात्मनात्मन् " ( उ० 916 ) इति मनि निपातनाद् वेमा, वेम तन्तुवायोपकरणम् / विः इति तु वेतेः डौ [ " नीवीप्रहृभ्यो डित् " (उ० 616) / 993 व्यंग् संवरणे'। संवरणम् आच्छादनम् / व्ययते, व्ययति / " व्यस्थवणवि" 4 / 2 / 3 इति आत्वाभावे "ज्याव्ये०" 41171 इति पूर्वस्य इत्वे संविव्याय / " सृजिदृशि०" 4478 इति थवि विकल्पापवादे "ऋवृ०" 4 / 4 / 80 इति इटि संविव्ययिथ, अत्र परोक्षाश्रयत्वेन "बहिरङ्गमित्वमन्तरडे दी असिद्धम् " [ तु० न्याय० 20 ] इति " भ्वादे० " 201163 इति पूर्वस्य दीर्घाभावः / " यजादिवचे:०" 4 / 1179 इति वृति " योऽनेकस्वरस्य " 21156 इति यत्वे च संविव्यतुः, संविव्युः / “यमिरमि०" 4 / 2 / 55 इति इटि सेऽन्ते च अव्यासीत् , अव्यासिष्टाम् / यङि “व्येस्यमो०" 4 / 1 / 85 इति वृति संवेवीयते / यपि " व्यः" 4 / 1 / 77 इति वृनिषेधे उपव्याय / " संपरेर्वा" 41178 संव्याय, संवीय; परिव्याय, परिवीय / क्ये वीयते / णौ " पाशाछा०" 4 / 2 / 20 इति ये व्याययति / अनुस्वारेच्चान्नेट , संव्याता, संव्यातुम् / “य एच्चातः" 5 / 1 / 28 इति ये व्येयम् / नीविः इति तु नयतेः औणादिके वो [ जश० (उ० 705)] // ___ 994 हवेग स्पर्धाशब्दयोः' / ह्वयते, ह्वयति / " ह्वः स्पर्धे " 3 / 3 / 56 इत्यात्मनेपदे मल्लो मल्लम् आह्वयते / " संनिवेः " 3 / 3 / 57 संहवयते, निहवयते, विवयते / " उपात् " 3 / 3 / 58 उपवयते / क्ये " यजादिवचेः०" 41179 इति वृति आहूयते / " द्वित्वे हवः" 4 1187 इति वृति जुहाव, जुहुवतुः / थवि " सृजिशि०" 4478 इति वा नेटि जुहोथ, जुहविथ / सनि जुहूषति / यङि जोहयते / " णौ उसनि" 4|1188 इति स्वृति अजूहवत् , जुहावयिषति / अत्र णो विषये वृद् इति " पाशाछासा०" 4 / 2 / 20 इति योऽन्तो न भवति / "पाशा०" 4 / 2 / 20 इति ये आवाययति / अनुस्वारेचान्नेट् , आजाता, आहूवातुम् / अद्यतन्यां " वालिप्० " 32462 इत्यङि आवत् / “वाऽऽत्मने" 3 / 4 / 63 आवत, आह्वास्त / " उपसर्गादातो." 5 / 1156 इति डे आह्वः / 1. सात्मना इति मु० !!