________________ आचार्यश्रीहेमचन्द्रविरचिते [धा० 991 " त्यजयज०" 4 / 1 / 118 इति ध्यणि गत्वप्रतिषेधाद् याज्यम् , अत एव वचनाद् घ्यण अपि, " शकितकि०" 5 / 1 / 29 इति ये यज्यम् , - णके याजकः / "कर्मजा तचा च" 3 / 1183 इति निषिद्धोऽपि याजकादित्वात् षष्ठीसमासः, नृपयाजकः / क्विपि " यजसृज०" 211187 इति पापवादे “ऋत्विजदिश०" 2 / 1169 इति गे ऋतौ यजति ऋत्विक् / “करणाद्यजो भूते" 5 / 1 / 158 इति णिनि अग्निष्टोमयाजी / “सुयजो०" 5 / 1 / 172 इति वनिपि यज्वा / " पूङ्यजः०" 5 / 2 / 23 इति शाने यजमाना / " यजिजपि०" 5 / 2 / 47 इति यङन्ताद् ऊके यायजनशीलो यायजूकः / " यजिस्वपि० " 5 / 3 / 85 इति ने यज्ञः। " आस्यटि० " 5 / 3 / 97 इति स्त्रियां भाषे क्यपि इज्या / “वादिभ्यः" 5 / 3 / 92 इति क्तौ इज्यतेऽनया इष्टिः / उणादौ " प्लुज्ञा०" (उ० 646) इति तौ यष्टिः / " रुद्यति० " ( उ० 997 ) इत्युसि यजुः अच्छन्दाः श्रुतिः // अथैदन्तास्त्रयः // . 992 वेंग तन्तुसन्ताने' / गित्वात " ईगितः" 3395 इति फलवत्कर्तर्यात्मनेपदम् / अन्यत्र " शेषात् परस्म " 3 / 3 / 100 इति परस्मैपदम् ; वयते, वयति / " वेवय" 4 / 4 / 19 इति वा वयादेशे " यजादिवश० " 4 / 1 / 72 इति पूर्वस्य स्वृति उवाय, उवयिथ / “यजादिवः" 4179 इति वृति " न वयो य" 4 / 1 / 73 इति यस्य प्रतिषेधे ऊयतुः, ऊयुः / वयादेशाभावपक्षे " वेश्यः" 4 / 1 / 74 इति पूर्वस्य स्वृत्प्रतिषेधे ववौ / थवि " सृजिशि०" 4 / 4 / 78 इति वा नेटि वविथ, क्वाथ / "अविति वा" 4 / 1175 इति वा स्वृति द्वित्वे " वार्णात् प्राकृतं बलीयः" [ तु० न्याय० 44 ] इति पूर्वमुवादेशे समानदीर्घ च ऊवतुः, ऊवुः; पक्षे ववतुः, ववुः / अनुस्वारेचान्नेट् , वाता, वातुम् , वातव्यम् / णौ " पाशाछा०" 4 / 2 / 20 इति ये वाययति / " ज्यश्च यपि" 4176 इति रवृन्निषेधे प्रवाय, उपवाय / “य एच्चातः" 5 / 1 / 28 इति ये वेयः परः / "उपसर्गादातो." 5 / 1156 इति डे प्रवः / "तन्व्यधी०" ५।श६४ इति णे वायः। - "आतो डो०" 5 / 1 / 76 इत्यत्र वावर्जनात् कर्मणोऽणि तन्तुवायः मनि सुवामा / वनि सुवावा / क्वनिपि “यजादि०" 4 / 1179 इति स्वृति “दीघमवो०" 4 / 1 / 103 इत्यत्र वेगो वर्जनाद् दीर्घाभावे " दृस्वस्य० " 4 / 4 / 113 इति तागमे सूत्वा [ सु+उवा ], विचि 1. " त्यज्यजः” इति मुद्रिते सर्वासु प्रतिषु च, अत्रापि अप्रेऽपि // 2. "ऋत्विदिग्" इति मुद्रिते सर्वासु प्रतिषु च, अत्रापि अग्रेऽपि //