________________ 991 ] धातुपारायणे भ्वादयः (1) निसोढः, विसोढः / णौ डे पर्यसीषहत् , अत्र पूर्वस्य न षत्वम् , उत्तरस्य तु " नाम्यन्तस्था० " 2 / 3 / 15 इति स्यादेव / सनि षत्वापन्ने “णिस्तोरेवा." 2 / 3 / 37 इति नियमात् षत्वाभावे सिसहिपते / “णिस्तोरेवा० " 2 / 3 / 37 इत्यत्र ण्यन्तस्यापि सहेवर्जनाद् न षत्वम् , सिसाहयिषति / साक्षादादौ पाठात् षत्वाभावे अनटि गणनिपातनाद् एत्वे च विसहनेकृत्य / “दाश्वत्-साह्वत्" 4 / 1 / 15 इति निपातनात् क्वसौ साह्वान् / "शकितकि०" 5 / 1 / 29 इति ये सह्यम् / “वा ज्वला." 5 / 1 / 62 इति णे साहः, अचि सहः / नन्द्याधने सहनः / विपि 'गतिकारकस्य." 3 / 2 / 85 इति दीर्घ जलासट् / ग्रहादित्वाद् णिनि उत्साही / " साहिसाति०" 5 / 1 / 59 इति शे साहयः / " सर्वात् सहश्च" 5 / 11111 इति खे सर्वसहः / "भ्राज्यलंकृग्०" 5 / 2 / 28 इति इष्णौ सहनशीलः सहिष्णुः / “लू-धू-०" 5 / 2 / 87 इति इत्रे सहित्रम् / " सहलुभे०" 4 / 4 / 46 इति तादौ अशिति वेटि सोढा, सहिता / वेट्त्वात् क्तयोनेंट , सोढः, सोढवान् / " शकधृष० " 5 / 4 / 90 इति तुमि सहते भोक्तुम् / उणादौ " ऋषि-रजि० " ( उ० 279 ) इति असाने सहसानः दृढः / " मस्यसि० " ( उ० 699) इत्युरौ सहुरिः भूः / “सहेः षष् च" (उ० 951 ) इति क्विपि षट् / “अस्" ( उ० 952) इत्यसि सहः बलम् / पहण मषेणे [9 / 415 ], “युजादेनेवा" 3 / 4 / 18 इति वा णिचि साहयति / 'सहति कलभेभ्यः परिभवम् ' // __"वृत् ज्वलादिः" / ज्वलादयो वृत्ताः, समाप्ता इत्यर्थः // अथ यजादयो नव श्विवदवर्जा अनिटश्च वर्णक्रमेण दयन्ते, तत्रापि पूर्वाचार्यानुरोधेनादौ ' 991 यजी देवपूजासंगतिकरणदानेषु' / ईदिच्चाद् " ईगितः” 3 / 3 / 95 इति फलवत्कर्तर्यात्मनेपदम् / अन्यत्र " शेषात् परस्मै " 3 / 3 / 100 इति परस्मैपदम् / यजते, यजति / " यजादिवश्० " 4 / 1 / 72 इति पूर्वस्य वृति इयाज / " यजादि वचेः०" 4 / 1 / 79 इति वृति इज्यते, ईजे, ईजुः / यङि यायज्यते / यङ्लुपि यायजीति, यायष्टि / अनुस्वारेचान्नेट् , यष्टा, यष्टुम् / " यजेर्यज्ञानें" 4 / 1 / 114 इति गत्वप्रतिषेधाद् पनि प्रयाजः, अनुयाजः / यज्ञानादन्यत्र गत्वे यागः / 1. निस्तो' इति मु०॥