________________ 144 आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९८८ङ्याम् रोहिणी नक्षत्रम् / " रुहेर्वृद्धिश्च" (उ० 548) इति इथेः रौहिषं राणजातिः / ण्यन्तात् " स्वरेभ्य इ." ( उ० 606) रोहि: मृगः / “हसुरुहि." ( उ० 887 ) इति इति रोहित् मृगः / “ऋशीक्रुशि०" (उ० 906) इति 1 क्वनिपि रुह्वा वृक्षः // .... . . अथात्मनेपदिनौ // '989 रमि क्रीडायाम् / इदित्त्वादात्मनेपदे रमते / “व्यापरे." 3 / 3 / 105 इति परस्मैपदे विरमति, आरमति, परिरमति / " वोपात्" 3 / 3 / 106 / उपरमति, उपरमते वा / संतापो मैत्रमुपरमति, उपरमते वा अन्तर्भावितण्यर्थोऽयं " सकर्मकः / रेमे / “यमिरमि०" 4 / 2 / 55 इति इटि सेऽन्ते च व्यरंसीत् , + व्यरंसिष्टाम् / यङि रम्यते / यङ्लुपि रन्ति / अनुस्वारेवानेट , रन्ता, रन्तुम् / / " भव्यगेय० " 5 / 17 इति कर्तरि निपातनाये रम्यः / नन्द्याद्यने रमणः / : " रम्यादिभ्यः" 5 / 3 / 126 इति कर्तर्यनटि रमणी / “वा ज्वला०" 51162 इति णे रामः, रामा / अचि रमः, स्मा / “शोकापनुद०" 5 / 1 / 143 इति निपातनात् के स्तम्बेरमः हस्ती / उणादौ "पुतपित्त" (उ० 204) इति निपातनात् सूरतो दमितो हस्ती, अन्यो वा दान्तः / " नीनूरमि०" (उ० 227) / इति किति थे स्थः / " पथयूथ०" (उ० 231 ) इति निपातनात् सूरथी दान्तः। "रमेस्त च" ( उ० 264) इति ने रत्नम् / “कश०". ( उ० 329) इति / अभे रममः प्रहर्षः / " चकिरमिविकसेरुच्चास्य " ( उ० 393) इति रे रुम्रः ... अरुणः / रक्ष इति तु रह इति च रक्षिरह्योः असि / केचित्तु यमं उपरमे, रमू / क्रीडायाम् इति ऊदितौ ज्वलादौ अधीयते, तन्मते उदित्वात् क्त्वि वेट्, यत्वा यमित्वा, रत्वा रमित्वा // . . 990 पहि मर्पणे' / मर्षणं क्षमा / “पः सो० " 2 / 3 / 98 इति सत्वे इदिवादात्मनेपदे सहते / परोक्षायाम् अनादेशादित्वात् " अनादेशादे०" 4 / 1 / 24 इत्येत्वे द्वित्वाभावे च सेहे / पोपदेशत्वात् " नाम्यन्तस्था० " 2 / 3 / 15 इति षत्वे ' णौ डे असीपहत् / " असोङ० " 2 / 3 / 48 इति षत्वे परिषहते, निषहते, विषहते। .. " स्तुस्वचाटि नवा " 2 / 3 / 49 पर्यषहत, पर्यसहत, न्यपहत, न्यसहत, व्यषहत, - व्यसहत / " असोङ० " 2 / 3 / 48 इति वर्जनात् सोङयोः पत्वाभावे परिसोढः, 1. " किलि-पिलि०" ( उ० 608) इत्यनेन रुहं बीज जन्मनि इत्यस्माद् धातोः इप्रत्ययेऽपि रोहिः-सस्यं जन्म च भवति //