________________ 143 988 ] धातुपारायणे भ्वादयः (1) 5 / 1162 इति णे क्रोशः / बाहुलकात् सोपसर्गादपि गे उत्क्रोशः कुरः, पक्षे " नाम्युपान्त्य" 5 / 1 / 54 इति के क्रुशः / " उपसर्गाद् देवृ०" 5 / 2 / 69 इति णके आक्रोशनशीलः आक्रोशकः / घमि आक्रोशः / क्रुश्यते. उच्यते अध्वपरिमाणं यस्मात् क्रोशः / णके उत्क्रोशकः / उणादौ " कृ-सि-कम्य०" (उ० 773) इति तुनि क्रोष्टुना / "ऋ-शी-क्रुशि०" ( उ० 906) इति क्वनिपि क्रुश्वा शिवा // . अथ सान्तः // / '987 कस गतौ / कसति, उत्कसति, विकसति, चकास, कसिता / " वा ज्वला० " 5 / 1 / 62 इति णे कासः / अचि कसः / यङि " वञ्चसंस० " 4 / 1 / 50 इति पूर्वस्यान्तो नी चनीकस्यते / यङलुपि चनीकसीति / "स्थेशभास." 5 / 2 / 81 इति वरे विकसनशीलो विकस्वरः / उणादौ “संविभ्याम०" (उ० 52) इत्युके संकसत्यस्मात् संकसुकः अस्थिरः, भीमादित्वादपादाने साधुः / विकसुकः गुणवादी / “कसिपद्य० " ( उ० 835 ) इति णिदूः, कासः शक्त्यायुधम् // .. अथ हान्तः // . 1988 रुहं जन्मनि'। बीजजन्मनि इत्यन्ये / बीजजन्माऽङ्कुरोत्पत्तिः / रोहति, रुरोह / अनुस्वारेचान्नेट, सेढा / " हशिटो" 3455 इति सकि अरुक्षत् / णौ " रुहः पः" 4 / 2 / 14 इति वा पादेशे रोपयति, रोहयति / " वा ज्वला" 5 / 1162 इति णे रोहः / बाहुलकात् सोपसर्गादपि णे प्ररोहः, आरोहः / " नाम्युपान्त्य०" 5 / 154 इति के रुहो मृगः / छिन्नरुहः, प्ररुहः / स्थादित्वाद् भावाकोंः मूलविभुजादित्वाद् वा कर्तरि के बीजरुहा / अस्य " साक्षादादिश्व्यर्थे " 3 / 1 / 14 इति कृगा योगे वा गतित्वे बीजरुहाकृत्य वीजरुहा कृत्वा गतः / “श्लिषशी" 5 / 119 इति वा कर्तरि ते खट्वाम् आरूढः / क्तौ रूढिः / उणादौ " दृश्या०" (उ० 210) इति इते रोहितो वर्णः, लत्वे लोहितः / "श्येते." 2 / 4 / 36 इति याम् रोहिणी / "रुहिनन्दि०" (उ० 220) इति टित्यन्ते गेहलो द्रुमः, रोहन्ती ओषधिः / “विपिना." (उ० 284 ) इति निपातनाद् इने रोहिणः / स्त्रियां " रेवत० " ' 2 / 4 / 26 इति 1. उत्कोशो मत्स्यनाशनः कुरर. (अ. चि. 4 / 401) // 2. कोष्टा शृगालः, तस्य तृतीयैकवचनम् //