________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा० 982 गोपालः / उणादौ " दृश्या०" (उ० 210) इति इते पलितं पाण्डुः केशः केशपाकश्च / अभ्रादित्वाद् अः, पलितमस्यास्ति पलितः / “मृदिकन्दि." ( उ० 465) इति अले पललं तिलकल्कः / " ऋकृमृ०" ( उ० 475) इत्याले पलालम् / “शमिकमि०" ( उ० 499 ) इति बले पल्वलम् अखातसरः / पलण रक्षणे [9 / 132] पालयति // 983 फल' / फलति, पफाल / “तृत्रपफल०" 4 / 1 / 25 इत्येत्वे द्वित्वाभावे च फेलतुः, फेलुः / फलिता, फलिष्यति / " वा ज्वला०" 5 / 1162 इति णे फालः कुशिकः / फाला इव तण्डुलाः / अचि फलम् // 984 शल' / शलति, शशाल, शलिता / "वा ज्वला०." 5 / 1162 इति णे शालः, शाला / अचि शलं श्वाविद्रोम / उणादौ " मीणशलि." (उ० 21) इति के शल्कः शरणम् / “शलिबलि." (उ० 34) इत्याके शलाका / “शल्यणेणित् " (उ० 59) इति ऊके शालूकं कुमुदादिकन्दः / " शल्यलेरुच्चातः" ( उ० 319) इति वे शुल्वम् / “कृशगृ०" ( उ० 329) इत्यभे शलभः / “स्था-छा--मा०" (उ० 357) इति ये शल्यम् / यावादित्वात् के शल्यकः / " मृदि-कन्दि०" ( उ० 465) इत्यले शललं श्वावित्सूची / "कमि-वमि०" ( उ० 618) इति णिदिः, शालिः / " माशालि." ( उ० 703) इति ण्यन्ताद् मलौ शाल्मलिः / फलिशल्योः पूर्वमधीतयोः अपीह पाठो ज्वलादिकार्यार्थः शलेः परस्मैपदार्थश्च / / * 985 हुल हिंसासंवरणयोश्च / चकाराद्. गतौ / होलति, जुहोल, होलिता / "वा ज्वला" 5 / 1162 इति णे होलः, पक्षे " नाम्युपान्त्य" 51154 इति के हुलः, हुडः / उणादौ “पृ-का-हृषि०" ( उ० 729) इति किदुः, हुडुः मेषः // अथ शान्तः // '986 क्रुश आह्वानरोदनयोः' / क्रोशति, चुक्रोश / " हशिटो० " 3 / 4 / 55 इति सकि अक्षत् / अनुस्वारेच्चान्नेट , क्रोष्टा, आक्रोष्टा / " वा ज्वला." 1. शुल्बम् ताम्रम् इत्युणादि विवरणे // 2. अयं गतौ एव इति क्षीरस्वामी (क्षो. त. पृ. 117 ) //